केरले 'अमीबिक मस्तिष्कज्वरः' व्याप्यते।
आहत्य १९ मरणानि।
अनन्तपुरी> जलाशयेभ्यः प्रसार्यमाणः अमीबिक मस्तिष्कज्वरः नामकरोगबाधया केरलराज्ये अस्मिन् वर्षे अद्यावधि १९ जनाः मृता इति स्वास्थ्यविभागेन निगदितम्। २० जनाः रोगबाधया राज्यस्य विविधस्थानेषु परिचर्यायां वर्तन्ते।
अनन्तपुरी सर्वकारीयवैद्यककलालये [Govt.Medical College] इदानीं ११ जनाः अमीबिकज्वरेण परिचर्यायां वर्तन्ते। कोष़िकोट्, कोल्लम् इत्यादिषु जनपदेषु रोगबाधा दृश्यते।