OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, September 6, 2025

 ट्रम्पं प्रति पुतिनस्य कठोरविमर्शः।

चीनं भारतं च ट्रम्पस्य व्यवहारः सीमातीतः। 

पुतिनः ट्रम्पश्च। (छायाचित्रसंग्रहात्)

बीजिङ्> अधिकशुल्कमभिव्याप्य आर्थिकप्रक्रमान् उपयुज्य भारतस्य चीनस्य चोपरि यू एस् राष्ट्रपतिना डोनाल्ड ट्रम्पेन उपयुज्यमानः सम्मर्दः सीमातीत इति रूसराष्ट्रस्य अधिपः व्लादिमीर पुतिनः व्यमर्शयत्। "'कोलनिवत्करणस्य' कालः अतीतः इति ट्रम्पेण स्मर्तव्यम्। १५० कोटिसंख्याकैः जनैः विश्वस्य बृहत्तमं जनाधिपत्यराष्ट्रं भवति भारतम्। तथा च सर्वथा विकसितराष्ट्रमस्ति चीनः। उभयोरपि राष्ट्रयोरभिमानः माननीयः" - पुतिनः प्रावोचत्। षाङ् हाय् शिखरसम्मेलने तथा चीनस्य 'मिलिटरि परेड्' इत्यस्मिन् च भागं कृत्वा, तस्मिन्नवसरे  वार्ताहरैः सह भाषमाणः आसीत् पुतिनः।