OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, September 15, 2025

 एष्या चषक क्रिकट् 

पाकिस्थानं विरुध्य भारतस्य उज्वलविजयः। 

कुलदीपयादवः - ३ द्वारकाणि, ४७*, श्रेष्ठक्रीडकः। 


दुबाय्> अत्रस्थे अन्तर्देशीयक्रीडाङ्कणे सम्पन्ने भारत-पाकिस्थानयोः क्रिकट्प्रतिद्वन्द्वे भारतस्य उज्वलविजयः। पाकिस्थानं सप्त द्वारकैः पराजयत। 

  प्रथमं कन्दुकताडनं कृतवन्तं पाकिस्थानगणं २० क्षेपणचक्रेषु ९ ताडकान् बहिर्नीत्वा १२७ धावनाङ्कैः भारतगणं बबन्ध। प्रत्युत्तरताडने १५.५ क्षेपणचक्रेषु केवलं त्रयाणां द्वारकाणां विनष्टे १३१ धावनाङ्कान् प्राप। 

  भारताय 'स्पिन्'क्रीडकः नायकः च कुलदीप यादवः त्रीणि द्वारकाणि सम्प्राप्तवान्। सः अबाह्यः सन् ४७ धावनाङ्कान् सम्प्राप्य श्रेष्ठक्रीडकपदमपि अवाप। अनेन विजयेन त्रीन् विजयानवाप्य भारतम् ए नामके स्वकीये संघे  प्रथमगणनीयतामवाप।