अद्य पूर्णचन्द्रग्रहणम्।
विरलः 'रक्तचन्द्र'प्रतिभासः द्रष्टुं शक्यते।
कोच्ची> सेप्टम्बर् ७ रात्रौ ८. ५८ वादनतः आरभ्य अष्टमदिनाङ्के प्रत्युषसि २. २४ वादनपर्यन्तं विश्वस्य बहुषु भागेषु पूर्णचन्द्रग्रहणं सम्भविष्यति। भारतमतिरिच्य अशेषम् एष्याभूखण्डं, आफ्रिकायाः पूर्वभागः, आस्ट्रेलिया इत्येतेषु प्रदेशेषु अयं दृश्यविस्मयः अनुभोक्तुं शक्यते।
अद्य रात्रौ ११ वादने चन्द्रः पूर्णतया आच्छाद्यते। तदा Blue Moon इति चन्द्रे रक्तवर्णप्रतिभासः द्रष्टुं शक्यते।