OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, September 7, 2025

 अद्य पूर्णचन्द्रग्रहणम्। 


विरलः 'रक्तचन्द्र'प्रतिभासः द्रष्टुं शक्यते।

कोच्ची> सेप्टम्बर् ७ रात्रौ ८. ५८ वादनतः आरभ्य अष्टमदिनाङ्के प्रत्युषसि २. २४ वादनपर्यन्तं विश्वस्य बहुषु भागेषु पूर्णचन्द्रग्रहणं सम्भविष्यति। भारतमतिरिच्य अशेषम्  एष्याभूखण्डं, आफ्रिकायाः पूर्वभागः, आस्ट्रेलिया इत्येतेषु प्रदेशेषु अयं दृश्यविस्मयः अनुभोक्तुं शक्यते।

  अद्य रात्रौ ११ वादने चन्द्रः पूर्णतया आच्छाद्यते। तदा Blue Moon इति चन्द्रे रक्तवर्णप्रतिभासः द्रष्टुं शक्यते।