OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, September 8, 2025

 नासायाः यानत्रितयम् एकक्षेपण्या सूर्यमभिलक्ष्य।

    पञ्चविंशत्यधिकद्विसहस्रतमे सप्ताम्बर् मासे नासाशासनमेकम् अनन्यसाधारणम् अभियोजना आरप्स्यते। अस्या: अभियोजनाया: वैशिष्ट्यमिदं यदेकेनैव प्रक्षेपणयानेन त्रीणि पृथक् वैज्ञानिकानि कार्याणि अन्तरिक्षं प्रेषयिष्यन्ते येषां मुख्यं लक्ष्यं सूर्यस्याध्ययनं भविष्यति।

  एतेषु त्रिषु प्रकल्पेषु प्रथमः पञ्चेतिनामकः। अस्य मुख्यमुद्देश्यं सूर्यस्य बाह्यवायुमण्डलस्य किरीटनाम्नस्तस्य सौरवातस्य जननप्रक्रियायाश्च अध्ययनं वर्तते। अस्मिन् कार्ये पेटिकासदृशाश्चत्वारो लघूपग्रहाः सन्ति ये सूर्यस्य वातावरणं परितः स्थित्वा महत्त्वपूर्णानि दत्तानि सङ्ग्रहीष्यन्ति।

  द्वितीयोऽभियानः स्फेरेक्सितिनामकः। अयं प्रकल्पः प्रतिषण्मासं समग्रमाकाशं समीक्ष्य ब्रह्माण्डस्य विस्तृतं मानचित्रम् अवरक्तप्रकाशस्य साहाय्येन रचयिष्यति। अनेन दूरवीक्षणयन्त्रेण स्वस्याम् आकाशगङ्गायां दशकोट्यधिकतारकाणाम् अन्येषां च त्रिंशत्कोटिगङ्गानां सर्वेक्षणं विधास्यते। अपि च नक्षत्रजन्मस्थानेषु जीवनस्यावश्यकयोर्जल-जैविकरेण्वोः सत्ताम् अधिकृत्य अन्वेषणं करिष्यते।

    तृतीयं च कार्यं ट्याण्डेम्-द्वितीयमिति ज्ञायते यदेकं तान्त्रिककौशल-प्रदर्शनमस्ति। अनेन कक्ष्यायां द्वयोः अन्तरिक्षयानयोः स्वचालित -संयोगवियोगप्रक्रियायाः परीक्षणं सम्पादयिष्यते। एवं नासाशासनम् एकेनैव प्रक्षेपणप्रयासेन भिन्नोद्देश्ययुक्तान् त्रीनभियानान् युगपत् प्रेषयिष्यति यदन्तरिक्षान्वेषणक्षेत्रेऽतीव निपुणतापूर्णः पदक्षेपो मन्यते॥