OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, September 17, 2025

 गासायाम् इस्रयेलस्य स्थलसेनायाः आक्रमणम्। 

गतदिने ७८ मरणानि। 

गासायाम् इस्रयेलस्य आक्रमणम्।

जरुसलेमः> यू एस् विदेशकार्यसचिवस्य हमासोन्मूलनप्रख्यापनस्य अनुबन्धेन इस्रयेलः स्थलाक्रमणं तीव्रं कारितम्। कुजवासरे गासासिटी स्थानस्य अन्तः प्रविश्य कृते आक्रमणे ७८. गासानिवासिनः हताः। असंख्यं जनाः व्रणिताः जाताः। 

  "गतरात्रौ अस्माभिः युद्धस्य प्रमुखः पदक्षेपः कृतः। गासासिट्यां स्थलाक्रमणं विपुलीकृतम्।" - इस्रयेलस्य सेनावक्ता अविचाय् आन्डेली नामकः निगदितवान्। यत्र आक्रमणं प्रचलति तत्र २००० - ३००० हमासीयाः विद्यन्ते इति सेनया अभिमानितम्। किन्तु गासाक्रमणं यू एन् संस्थया, यूरोपीयराष्ट्रसंघटनेन च अपलपितम्। हमासोन्मूलनं न, गासासिट्याः संग्रहणमेव अस्य युद्धस्य लक्ष्यमिति राष्ट्रनेतारः आरोपितवन्तः।