OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, September 15, 2025

 केरले विधानसभासम्मेलनम् अद्य आरभ्यते। 


अनन्तपुरी> केरलस्य १४ तमविधानसभायाः १५तमं सम्मेलनं सोमवासरे आरभ्यते। १७ विधेयकानि परिगणनार्हाणि सन्ति। तेषु आक्रमणकारिणां वन्यजीविनां वधसम्बन्धविधेयकं प्राधान्यमर्हति। एतदभिव्याप्य त्रीणां विधेयकानां नियमपरिरक्षणाय राष्ट्रपतेः अनुज्ञा आवश्यकी। 

  सम्मेलनस्य त्रीणि सोपानानि भविष्यन्ति। प्रथमसोपानं १५ तमदिनाङ्कतः १९ पर्यन्तं भविष्यति। २९, ३० दिनाङ्कयोः द्वितीयं, ओक्टोबर् ६ - १० तृतीयं च।