OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, September 11, 2025

 नेपाले प्रशासनविरुद्धप्रक्षोभः तीव्रः।

राष्ट्रपतिः, प्रधानमन्त्री, इतरे मन्त्रिणश्च स्थानत्यागं कृतवन्तः।

नेपालेयुवकप्रक्षोभस्य दृश्यम्। 

'जेन् सी' आन्दोलनमनुवर्तते। 

काठ्मण्डुः> नेपालराष्ट्रे सामाजिकमाध्यमानां निरोधात् गतशुक्रवासरे आरब्धः  युवजनानां छात्राणां च प्रक्षोभः दिनद्वयेन सीमामुल्लङ्घितः। आराष्ट्रं प्रक्षोभकारिणः अक्रमासक्ताः अभवन्। प्रधानमन्त्री के पि शर्मा ओली स्थानमत्यजत्। दिनद्वयानन्तरं राष्ट्रपतिः रामचन्द्रपौधेनः त्यागपत्रं समर्पितवान्। इतरे मन्त्रिणोSपि प्रभोक्षसम्मर्देन स्थानं त्यक्तवन्तः। आराष्ट्रम् अरक्षितावस्था वर्तते। प्रशासननियन्त्रणं सैन्येन स्वीकृतमिति सूच्यते। 

  कतिपयमासेभ्यः पूर्वं नेपालप्रशासनस्य अत्याचारमधिकृत्य युवजनैः  फेस् बुक्, इन्स्टग्रामः, वाट्स् आप् इत्यादिसमाजिकमाध्यमद्वारा प्रतिषेधचर्चाः, बोधवत्करणमित्यादीनि आरब्धानि। प्रशासनं विरुध्य जनानां प्रतिषेधे शक्ते जाते सर्वकारेण २६ सामाजिकमाध्यमाः निरुद्धाः। युवकानां प्रक्षोभः 'जेन् सी' [Gen Z] आन्दोलनमिति व्यवहृतः। आक्रमणे कलहे च १९ जनाः हताः; ३४५ जनाः आहताः इति सेनाधिकारिभिः सूचितम्। 

  अतीते सोमवासरे सामाजिकमाध्यमनिरोधः अपसृतः अपि युवजनप्रक्षोभः अनुवर्तमानः अस्ति। राष्ट्रे विद्यमानाः भ्रष्टाचाराः, कर्माभावः, दारिद्र्यावस्था इत्येते उन्मूलनीयाः इत्येव युवकानाम् लक्ष्यम्।