OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, September 2, 2025

 अफ्गानिस्थाने महान् भूकम्पः 

८०० जनाः मृताः; २५०० क्षताः।

काबूल्> अफ्गानिस्थानस्य पूर्वीयक्षेत्रे रविवासरे रात्रौ दुरापन्ने महति भूकम्पे ८०० जनाः मृत्युमुपगताः। २५०० अधिके जनाः आहताः। भूकम्पावशिष्टेषु बहवः लग्नाः इत्यतः मृत्युसंख्या अधिका भवेदिति तालिबानप्रशासनेन निगदितम्। 

  जलालाबादनगरस्य २७ कि मी दूरे आसीत् भूकम्पस्य प्रभवकेन्द्रम्। भूकम्पमापिन्यां तीव्रता षट् अङ्किता। बहूनि अनुवर्तकम्पनानि च जातानि।