OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, September 14, 2025

 मणिपुरे प्रशान्तिं पुनःस्थापयिष्यति - प्रधानमन्त्री। 


चुरा चन्दपुरं> मणिपुरराज्ये विनष्टां  शान्तिं पुनःसंस्थायितुं यतिष्यते इति  प्रधानमन्त्री नरेन्द्रमोदी उद्घोषितवान्। केन्द्रप्रशासनं मणिपुरेण सह वर्तते इति प्रधानमन्त्रिणा उक्तम्। 

  ह्यः चुरा चन्दपुरे ७३०० कोटिरूप्यकाणां विकसनभण्डागारस्य उद्घाटनं कृत्वा अनन्तरं जनान् प्रति भाषितवान् प्रधानमन्त्री मणिपुरं शान्तेः समृद्धेः च प्रतीकं करिष्यतीति उक्तवान्। राज्यात् ये निष्कासिताः तेषां पुनरधिवासाय ७००० वासगृहाणि निर्मास्यन्ति। तदर्थं ३००० कोटिरूप्यकाणाम् अभियोजना उद्घोषिता आसीत्। सविशेषसाहाय्यार्थं ५०० कोटिरूप्यकाणां परियोजना अपि विज्ञापिता। 

  अतिवृष्टिकारणेन इम्फालतः वीथीद्वारा एव प्रधानमन्त्री चुराचन्दपुरं प्राप्तवान्। राज्यपालः अजयकुमार भल्ला इत्यादयः कार्यक्रमे भागं गृहीतवन्तः। इम्फाले १२०० कोटि रूप्यकाणां १७ परियोजनाः अपि प्रधानमन्त्रिणा विज्ञापिता। २०२३ मेय् मासे वंशीयकलहारम्भात् परं प्रथमतया एव प्रधानमन्त्री नरेन्द्रमोदी मणिपुरं प्राप्तवान्।