OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, September 4, 2025

 राष्ट्ररक्षणाय रष्यातः अधिकं 'एस् 400' प्रतिरोधसंविधानम्। 

रष्यायां विन्यस्तम् एस् ४०० इति प्रतिरोधसंविधानम्। 

नवदिल्ली> राष्ट्ररक्षां संवर्धयितुं रष्यातः अधिकं 'एस् 400' इति प्रतिरोधसंविधानं क्रेतुं भारतप्रशासनेन निश्चितम्। वर्तमानकाले तादृशानि पञ्चसंख्याकानि क्रेतुं सन्धिरस्ति। तेषु त्रीणि भारताय दत्तानि। अवशिष्टे द्वे २०२७ तमे वर्षाभ्यन्तरे स्वीकर्तुं रष्यायाः रक्षाविभागेन सह चर्चा प्रचलन्ती अस्ति। 

  रूसराष्ट्रस्य सर्वोत्कृष्टं भूतल-व्योम अग्निशस्त्र [Surface to Air Missile]  प्रतिरोधसंविधानं भवति 'एस्  ४००'। एतदतिरिच्य भारतेन सह प्रतिरोधसहयोगं प्रबलीकर्तुं चर्चाः प्रचाल्यन्ते इति रष्यायाः Federal Service for Military Technical Co operation इत्यस्य उन्नताधिकारी दिमित्री षुगयेव् इत्यमुं पुरस्कृत्य 'टास्' इति रूसीयवार्तामाध्यमेन निगदितम्।