OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, September 10, 2025

 एष्याचषकहोकी - भारतमजय्यं; किरीटप्राप्तिः। 

भारतदलस्य आह्लादः। 

+ विश्वचषकस्पर्धां प्रति योग्यताप्राप्तिः। 

+ दिल्प्रीत सिंहस्य युगलक्ष्यकन्दुकप्राप्तिः। 

राजगिरिः> होक्कीस्पर्धायां भारतमजय्यमिति एकवारमपि प्रमाणीकृत्य बिहारे राजगिरौ सम्पन्नायां एष्याचषकयष्टिक्रीडावीरतास्पर्धायां भारतस्य किरीटोपलब्धिः। अत्यन्तमुत्साहभरिते अन्तिमप्रतिद्वन्द्वे ४ - १ इति लक्ष्यकन्दुकक्रमेण दक्षिणकोरियां पराजयत। अनेन एष्याचषकविजयेन भारतं आगामिवत्सरे सम्पत्स्यमाने पुरुषाणां विश्वचषकप्रतिद्वन्द्वे क्रीडितुं योगतामवाप। 

  अष्ट संवत्सरेभ्यः परमेव एष्याचषके भारतस्य किरीटप्राप्तिः। २८, ५४ निमेषतमे दिल्प्रीत सिंहः लक्ष्ययुगलं प्राप्तवान्। तमतिरिच्य सुखजीत सिंहः, अमित रोहितदासः च एकैकं लक्ष्यकन्दुकं च सम्प्राप्य भारतस्य अजय्यताम् उद्घोषितवन्तौ। दक्षिणकोरियायाः डेय्न् सणः  लक्ष्यमेकं सम्पाद्य दक्षिणकोरियायै आश्वासं चकार। आहत्य सम्पन्नेषु ६ प्रतिद्वन्देषु एकस्मिन्नपि भारतं पराजयं नानुबभूव। पञ्च विजयाः, एका समस्थितिश्च।