OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, September 7, 2025

 गुजराते 'कार्गो रोप् वे' [Cargo Ropeway] प्रभञ्य षट् मरणानि।

दुर्घटनादृश्यम्।

अहम्मदाबादः>  राज्ये पावगढ् इत्यत्र कालिक मातामन्दिरस्य पुनर्निर्माणे उपयुज्यमानं 'कार्गो रोप् वे' प्रभञ्ज्य ट्रोलीयन्त्रं  विशीर्य ६ कर्मकराः अकालमृत्युं प्राप्ताः। 

  शनिवासरे सायं ५. ३० वादने आसीत् दुर्घटना। द्वौ लिफ्ट् चालकौ, द्वौ कर्मकरौ, इतरौ द्वौ एव मृताः। चत्वारः आहताः। ८०० मीटर् मितम् उच्चे वर्तमाने स्थाने अस्ति मन्दिरम्। तत्र सामानानि आनेतुम्  रोप् वे द्वारा ट्रोली उपयुज्यमानमस्ति। एतत् रोप् वे एव भग्नम्।