OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, September 4, 2025

 केरले तद्देशनिर्वाचनार्थम् अन्तिममतदायकावलिः प्रसिद्धीकृता। 

संक्षिप्तावलीमपेक्ष्य षोडशलक्षाधिकं मतदायकाः। 

अनन्तपुरी> केरलराज्ये त्रयस्तरीय तद्देशनिर्वाचनार्थं मतदायकानाम् अन्तिमावलिः प्रसिद्धीकृता। जूलाय् मासे प्रसिद्धीकृतां  संक्षिप्तावलीमपेक्ष्य १६,३४,२१६ मतदायकाः अधिके विद्यन्ते। 

  कुजवासरे प्रसिद्धीकृतायाम् अन्तिमावल्यां २,८३,१२,४७२ मतदानिनः सन्ति। नूतनतया नामयोजनाय २९,८१,३१० अर्थिनः आसन्। मतदायकावल्यां पुनरपि परिवर्तनं भवेदिति राज्यनिर्वाचनायोगेन निगदितम्।