OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, September 12, 2025

 सि पि राधाकृष्णः अद्य शपथवाचनं करोति। 

नियुक्तोपराष्ट्रपतिः सि पि राधाकृष्णः। 

नवदिल्ली> नियुक्तोपराष्ट्रपतिः सि पि राधाकृष्णः  भारतस्य १५ तमः उपराष्ट्रपतिः इति रूपेण शपथवाचनं करोति। अद्य प्रभाते दशवादने राष्ट्रपतिभवने आयोज्यमाने कार्यक्रमे राष्ट्रपतिः द्रौपदी मुर्मू प्रतिज्ञावाचनं कारयिष्यति। 

  तमिलनाडु राज्यीयः सि पि राधाकृष्णः  ततः उपराष्ट्रपतिरूपेण चितानां मध्ये तृतीयो देशस्नेही भवति। तमिलनाटे भाजपादलस्य वरिष्ठसेवार्थी इति प्रवर्तितः सः २०२४ तमे वर्षे महाराष्ट्रस्य राज्यपालत्वेन नियुक्तवानासीत्।  गतदिने सः तत्स्थानस्य परित्यागं कृतवान्।  

  जुलाई २१ तमे दिनाङ्के जगदीप धन्करः उपराष्ट्रपतिपदं त्यक्तवान् इत्यतः नूतनोपराष्ट्रपतिनिर्वाचनम् आवश्यकमभवत्।

Latest news