'जेन् सी' प्रक्षोभः - ५१ जनाः हताः ।
एकः भारतीयः।
नेपालं शान्तिमुपगच्छति।
काठ्मण्डुः> युवजनानां प्रक्षोभेण कलुषितः नेपालदेशः क्रमेण शान्तिमुपगच्छति। दिनद्वयेन अक्रमघटनाः न वृत्तान्तीकृताः। किन्तु सेनया विधत्तं 'कर्फ्यू' नामकनियन्त्रणम् अनुवर्तते।
प्रत्युत, अद्यावधि अक्रमघटनासु एकं भारतीयं, त्रीन् रक्षिपुरुषान् चाभिव्याप्य ५१ जनाः हताः इति आधिकारिकतया स्थिरीकृतम्। विशदांशाः न लब्धाः। वृत्तान्तप्रसारणे अपि नियन्त्रणं वर्तते इति सूच्यते।