OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, September 3, 2025

 अतिवृष्टिः

दिल्ल्यां जलोपप्लवभीतिः। 

नवदिल्ली> अनुस्यूततया अनुवर्तमानया अतिवृष्ट्या राष्ट्रराजधान्यां जलोपप्लवभीतिः वर्तते। नगरेण प्रवहन्त्यां यमुनानद्यां जलवितानं गतदिने जागरूकताङ्कनमतीतम्। अस्मिन् वर्षे प्रथमतया एव एतादृशरीत्या जलवितानम् अत्युच्चमुपस्थितम्। 

  नदीतटे निम्नप्रदेशमधिवसन्तः जनाः सर्वकारेण समाश्वासशिबिरं नीताः। हिमालये अनुवर्तमाना घोरवृष्टिः एव यमुनायां जलवितानवर्धनस्य कारणम्।