OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, September 7, 2025

 आरक्षकस्थानेषु 'सि सि टि वि छायाग्राहिण्यः' [CCTV Cameras] न सन्ति।

सर्वोच्चन्यायालयेन अपराधप्रकरणं पञ्जीकृतम्। 


नवदिल्ली> आराष्ट्रं सर्वत्र आरक्षकस्थानेषु सि सि टि वि छायाग्राहिण्यः' कार्यक्षमाः न वर्तन्ते इत्यतः भारतस्य सर्वोच्चन्यायालयेन स्वेच्छया अपराधप्रकरणं पञ्जीकृतम्। 

  आरक्षकस्थानेषु मानवाधिकारध्वंसनानि निरोधुम् उद्दिश्य २०१८ तमे वर्षे सर्वेषु आरक्षकस्थानेषु सि सि टि वि छायाग्राहिण्यः स्थापनीयाः इति सर्वोच्चन्यायालयेन आदिष्टम्। किन्तु राष्ट्रे अतीतेषु अष्टसु मासेषु ११ निगृहीतजनाः आरक्षकसकाशे हताः इति माध्यमवार्तानुसारमेव प्रकरणं स्वीकृतम्।