OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, September 6, 2025

 एष्या चषक होक्की

'सूपर् 4 मध्ये अद्य चीन-भारतस्पर्धा। 

भारतगणं स्पर्धामध्ये।

विजयी चेत् अन्तिमस्पर्धायाम्।

राजगिरिः> बिहारस्थे राजगिरौ प्रचाल्यमानायाः एष्या चषक होक्कीस्पर्धायाः  'सूपर् 4' नामकपूर्वान्त्यप्रतिद्वन्द्वस्य तृतीयचरणे अद्य भारतं चीनेन सह स्पर्धते। रात्रौ ७. ३० वादने एव स्पर्धा। भारतगणम् अद्य विजयं प्राप्स्यते तर्हि अन्तिमस्पर्धां प्रवेक्ष्यति। 

  इदानीं भारतस्य द्वाभ्यां 'सूपर् 4' स्पर्धाभ्यां चत्वारः अङ्काः सन्ति। गतदिने मलेष्यां ४-१ लक्ष्यकन्दुकरीत्या पराजयत। इतरस्मिन्  'सूपर् 4' प्रतिद्वन्द्वे मलेष्या कोरियां प्रति स्पर्धते।