OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, September 7, 2025

 ट्रम्प्मोदिनोः मैत्री इदानीमपि स्थिरा।

  भारतसंयुक्तराज्ययोः राजनय-संबन्धविषये भारतशासनस्य विदेशकार्यमन्त्री एस्॰जयशङ्करः स्वविचारान् प्राकाशयत्। तेन प्रतिपादितं यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः संयुक्तराज्याध्यक्षस्य डोणाल्ड् ट्रम्पस्य च मैत्री अद्यापि सुदृढा वर्तते। शीघ्रमेव एतौ नेतारौ दूरभाषेण संवदेताम् इति अपि तेन सूचितम्। उभयोः राष्ट्रयोः मध्ये विद्यमानानां केषाञ्चित् राजनय संबन्धविवादानां परिस्थित्याम् इदं सम्भाषणमतीव महत्त्वपूर्णं मन्यते। एषा वार्ता राष्ट्रद्वयस्य सम्बन्धेषु नूतनम् अध्यायम् उद्घाटयिष्यतीति आशास्यते॥


Latest News