भारतस्य पञ्चसप्ततितमं स्वतन्त्रतादिनम् आभारतम् आघुष् समाचर्यते।
![]() |
| St. Thoma's HS Ayroor Aluva. |
भारतस्य पञ्चसप्ततितमं स्वतन्त्रतादिनम् आभारतम् आघुष् समाचर्यते।
![]() |
| St. Thoma's HS Ayroor Aluva. |
आगामि जूलाय् मासादारभ्य सकृदुपयोगाय निर्मितानां पलास्तिकवस्तूनां निरोधनम् भविष्यति।
अफ्गानिस्थाने स्त्रीणाम् अधिकारान् तालिबानः दमयति। तासाम् अवस्था भीतिजनका हृदयभेदका च भवति।
युणैट्टड् नेषन्स् > अफ्गानिस्थाने तालिबानेन स्वायत्तीकृतेषु प्रदेशेषु स्त्रीणां बालिकानां च अधिकारस्योपरि तालिबानः कठिननियन्त्रणं आनयति इति भीतिदानि प्रतिवेदनानि बहिरागच्छन्ति इति यु एन् मुख्यकार्यदर्शिना अन्टोणियो गुट्टरसेन प्रोक्तम्। स्वाधीनप्रदेशेषु तालिबानः विशिष्य स्त्रियः तथा माध्यमप्रवर्तकान् च लक्ष्यीकृत्य मनुष्याघिकारस्योपरि कठिननियन्त्रणानि आनयन्ति इत्येतत् माम् अस्वस्थं करोति इति गुट्टरसः माध्यमान् प्रति अवोचत्। सामान्यजनान् लक्ष्यीकृत्य कृतानि आक्रमणानि मानविकनियमस्य लङ्घनं तथा युद्घापराधकृत्यसमं च भवति इति गुट्टरसेन प्रोक्तम्।
ओलिम्पिक्स् विजयिनां कृते नानाकर्ममण्डलव्यवहर्तॄणाम् अभिनन्दनानि संस्कृतभाषया - संस्कृतसमित्योः सविशेषः पदक्षेपः।
![]() |
| संस्कृतभाषया क्रीडकाभिनन्दनकार्यक्रमस्य उद्घाटनं वीडियोप्रकाशनेन प्रोफ. एम् के सानुवर्यः निर्वहति। |
कार्यक्रमस्यास्य उद्घाटनं केरलस्य प्रमुखः साहित्यनिरूपकः प्रोफ. एम् के सानुवर्यः 'वीडियोप्रकाशनेन' अकरोत्। भाषाप्रचारणाय सविशेषः आदर्शभूतश्च उद्यम एवायमिति सानुवर्यः उक्तवान्। सोSपि संस्कृतेन अभिनन्दनानि समार्पयत्। संस्कृतभाषायाः सामान्यजनेषु प्रचारः तद्वारा आभिमुख्यसंवर्धनमेवानेन कार्यक्रमेण लक्ष्यं कल्पते इति दक्षिणचिट्टूरविद्यालयस्य संस्कृतशिक्षकः तथा च 'केरल संस्कृताध्यापकफेडरेषन्' संघटनस्य एरणाकुलं जनपदाध्यक्षः अभिलाष् टि प्रतापः उक्तवान्। तस्य पत्नी शारीदासः कर्तेटं विद्यालयस्य शिक्षिका अस्ति।
रत्नशालाविज्ञापनात् वधूनां चित्राणि निष्कासयितव्यानि इति केरलराज्यपालेन आरिफ् मुहम्मद्खानेन समभ्यर्थितम्।
कोच्चि > रत्नशालाविज्ञापनात् (jewellery advertisement ) वघूनां चित्राणि निष्कासयितव्यानि इति राज्यपालेन आरिफ् मुहम्मद्खानेन समभ्यर्थितम्। विज्ञापनानि सामान्य जनान् स्ववशीकरिष्यन्ति। रत्नाभरणानि वघूजनेन समं न निबध्नातु। वधूनां चित्रस्य स्थाने गृहिणीनां शिशूनां वा चित्राणां निवेशनं करणीयम्। केरल विश्वविद्यालयस्य मत्स्यपालन-समुद्रिक शिक्षा (Kerala University of fisheries and Oceanic Studies ( K U F O S ) विभागानां छात्राणां बिरुददानसमारोहे भागं स्वीकृत्य भाषणं कुर्वन् आसीत् अयम्। स्त्रीधनदुराचारमधिकृत्य अवबोधनार्थं सहायकं भविष्यति एतत् इति तेन अभिप्रेतम्।
लब्धं स्त्रीधनम् अपर्याप्तम् इति उक्त्वा पुरुषेण वा तस्य गृहाङ्गैः केरलेषु वधूजनाः काचन पीडिताः मारिताः च। सर्न्दर्भे अस्मिन् राज्यपालस्य स्वाभिमतप्रकाशनम् सन्दर्भोचितम् इति सामाजिकनिरीक्षकाः वदन्ति।
गसनिनगरमपि तालिबानेन ग्रहीतम्।
अफ्गानिस्थानस्य राजधान्याः समीपस्थं गसनि नगरं तालिबानसेनायाः अधीनम् अभवत्। काबूलतः १५० कि. मी दूरे वर्तते एतत् नगरम्। काबूल - कण्डहारयोः राजवीथ्यां वर्तमाननगरेषु भूरि नगराणि तालिबानस्य अधीनानि भवन्ति। तालिबानाधीनेषु पतितेषु प्रधाननगरेषु एत् दशमं नागरं भवति। गसनि नगरस्य नियन्त्रणं नष्टम् अभवत् इति अफगान सेनायैः अतिप्रहरः भविष्यति। तालिबानतः भीत्या विविध-देशेभ्यः पलायिताः जनाः काबूलनगरम् अश्रित्य वर्तन्ते। तेषु तालीबानस्य गुप्तसैनिकाः अपि स्यात् इति अशङ्क्यते च।
कोविडस्य तृतीयतरङ्गम् इति सूचना। बंगलूरे गतपञ्चदिनाभ्यन्तरे २४२ बालकाः रोगबाधिताः इति दृढीकृताः।
बंगलूरु > बंगलूरुदेशे गतपञ्चदिनाभ्यन्तरे २४२ बालकाः कोविड्रोगेण बाधिताः। ऊन-नववयस्कानां १०६ बालकानां तथा नववयस्कादारम्य एकोनविंशति वयःपर्यन्तं १३६ बालकानां च रोगः दृढीकृतः। कोविडस्य तृतीयतरङ्गः अधिकतया बालकान् एव बाधिष्यते इति सूचनां प्रबलयति एतत् प्रतिवेदनम्। आगामि दिनेषु कोविड् रोगबाधितानां बालानां संख्या त्रिगुणीभविष्यति इति स्वास्थ्यसंस्थया पूर्वसूचना दत्ता अस्ति। प्रौढजनापेक्षया बालकेषु प्रतिरोधक्षमता न्यूना एव। अतः बालकानां गृहे उपवेशनमेव रोगव्यापनं निरोद्धुम् उत्तमोपायः इति स्वास्थ्यविदाः वदन्ति।
श्रीजेषाय २ कोटिः आर्थिकपुरस्कारः उद्योगे उन्नतिश्च।
अनन्तपुरी> टोक्यो ओलिम्पिक्स् मध्ये होक्कीस्पर्धायां कांस्यपदकविजेत्रे पि आर् श्रीजेषाय केरलसर्वकारस्य अनुमोदनम्। द्विकोटिरूप्यकाणि आर्थिकपुरस्कारः उद्योगे पदोन्नतिश्च पारितोषिकरूपेण दातुं मन्त्रिमण्डलेन निश्चितम्। राज्यस्य शैक्षिकविभागे [क्रीडामण्डले] उपनिदेशकरूपेण [Deputy Director] विराजते तस्मै सम्प्रति सहनिदेशकरूपेण [Joint Director] पदोत्कर्षं दातुमपि निश्चितम्।
किञ्च ओलिम्पिक्स् महोत्सवे भागं कृतवद्भ्यः अन्येभ्यः पञ्चक्रीडकेभ्यश्च पञ्चलक्षरूप्यकाणि प्रतिक्रीडकं दातुमपि निश्चितम्। टोक्योयात्राव्ययार्थं पूर्वं दत्तं पञ्चलक्षं विना अधिकतया एव एषः पारितोषिकः।
दीर्घयात्रानन्तरं गजयूथं स्वस्थानेषु प्रतिनिवर्तते।
सप्तदश मासात् पूर्वमेव यात्रा समारब्धा। प्रत्यागन्तुं द्विशतं किलोमीट्टर् दूरं संघेन इतोऽपि सञ्चरणीयम्। तदर्थं मासानि आवश्यकानि तथापि गजयूथस्य विनोदयात्रावेलायाम् आशङ्कितजनमनस्सु कौतुकं सञ्जनयन् वर्तते इदं प्रतिनिवर्तनम्। सप्तदश मासाभ्यन्तरे गजयूथं लक्ष्यं विना ५०० किलोमीट्टर् सञ्चरन्नासीत्।
तालिबानस्य अतिक्रमः - अफ्गानिस्थानात् भारतीयाः प्रतिनिवर्तयितव्याः।
नवदिल्ली> अफ्गानिस्थान-तालिबानसंघर्षे तीव्रे तत्रस्थाः भारतीयाः शीघ्रमेव प्रतिनिवर्तयेयुः इति भारतस्य विदेशकार्यमन्त्रालयेन जाग्रतासूचना दत्ता। भारतस्य वाणिज्यसंस्थाभिः स्वकीयाः भारतीयकर्मकराः ततः विनिवर्तव्याः इत्यपि निर्दिष्टम्।
अफ्गानिस्थानस्य चतुर्थं महानगरं मसार् ई षरीफ् नामकमपि तालिबानस्य आक्रमणविधेयमभवत् इत्यतः एव जाग्रतानिर्देशः कृतः।
कोविड्रोगव्यापनकालः छात्रेभ्यः कौशलवर्धनाय भवतु।
एषा बालिका दशम्यां कक्ष्यायां पठति पाठ्येषु विषयेषु अपि सा कुशला। अस्याः प्रवर्तनानि सर्वेषाम् कृते आदर्शभूतानि भवन्ति इति विद्यालयस्य प्रबन्धकेन वैदिकेन अन्टोच्चन् सि. एम्. ऐ महोदयेन उक्तम्। ईदृशेषु आह्लादप्रेदेषु प्रवर्तनेषु अपि सर्वेषां श्रद्धाभवतु इति अध्यापक-रक्षा-कर्तॄणाम् अन्तर्जालोपवेशने, छात्राणाम् ओण् लैन् कक्ष्यायां च प्रथमाध्यापिकया एलिसबत्त् पोल् वर्यया उक्तम्। इदृशप्रवर्तनेन छात्राः उत्तेजिताः भवन्तु। प्रभावशालिनः च भवन्तु इत्यपि तया उक्तम्। विगते अध्ययनसंवत्सरे अत्रत्याः छात्राः १००% उत्तीर्णतां प्रप्तवन्तः। छात्राणां बहुमुखविकासः शिक्षाप्रणाल्या भवतु इति शैक्षिकदर्शनाधिष्ठितं भवति सि एम् ऐ संस्थायाः शैक्षिकदर्शनम् इति महाप्रबन्धकः वैदिकः डा. साजु माटवनक्काट् महोदयः सम्प्रतिवार्तां प्रति अवदत्।
परीक्षणयात्रा विजयप्रदा। ऐ एन् एस् विक्रान्तः कोच्चीदेशे प्रत्यागतः।
आगोलतापनस्य भयानकवर्धनं मनुष्यवंशस्य अपायसूचना इति अध्ययनानि प्रतिवेद्यन्ते।
आगोलतापवर्धना २१०० संवत्सराभ्यन्तरे २° सेलष्यस् उपरि आगमिष्यति इति ऐ पि सि सि प्रतिवेदनं पूर्वसूचनां ददाति। हरितगृहवातकानां बहिर्गमने जाग्रतां न पालयति चेत् स्थितिः अतीव रूक्षः भविष्यति इति पूर्वसूचना अप्यस्ति।
आविश्वं कोविड्बाधिताः २० कोटि अतीताः।
वाषिङ्टण्> अद्यावधि आविश्वं २०.३६ कोट्यधिकेषु जनेषु कोविड्रोगः स्थिरीकृतः। ४३. ११लक्षं जनाः रोगबाधया मृत्युमुपगताः। ह्यः चतुर्लक्षं जनाः कोविड्बाधिताः अभवन्। षट्सहस्रं जनाः कालयवनिकां प्राप्ताः।
अधिकाधिकतया कोविड्बाधितानि राष्ट्राणि, रोगबाधितानां संख्या, [मृत्युसंख्या] इतिक्रमेण - अमेरिक्का - ३.६५कोटिः [६.३३लक्षं], भारतं - ३.२कोटि [४.२८लक्षं], ब्रसील् - २.०२कोटि [५.६३लक्षं],रूस् - ६४.७लक्षं [१.६६लक्षं], फ्रान्स् - ६३लक्षं [१.१२लक्षं], ब्रिट्टनं- ६०लक्षं [१.३लक्षं], तुर्की - ५९लक्षं [६०सहस्रम्]
अफ्गानिस्थाने दिनत्रयाभ्यन्तरे २७ बालकाः मारिताः।
काबूल्> तालिबानभीकराः सुरक्षासेनया सह तीव्रयुद्धे अनुवर्तमाने अफ्गाने दिनत्रयाभ्यन्तरे २७ बालकाः मारिता इति संयुक्तराष्ट्रसभायाः आवेदनपत्रे सूचितम्। बालकान् विरुध्य क्रियमाणाः अतिनिष्ठुरातिक्रमाः राष्ट्रस्य विविधभागेषु अनुदिनं वर्धन्ते इति बालकेभ्यः प्रवर्तमानेन यू एन् उपसंघटनेन यूणिसेफ् इत्यनेन स्पष्टीकृतम्। काण्डहारं, खोस्त्, पकतिया प्रदेशेषु २७ बालकाः व्यापादिताः इति दृढीकृतमस्ति। १३६ बालकाः तीव्रतया व्रणिताः इति च यूणिसेफ् इत्यनेन उच्यते।
एतदाभ्यन्तरे षष्ठी प्रादेशिकराजधानी अपि तालिबानेन निगृहीता। सबन्गन् प्रदेशस्य राजधानीभूतस्य एबक् नगरस्य नियन्त्रणमेव तालिबानेन स्वायत्तीकृतमिति सर्वकारेण स्पष्टीकृतम्।
ओलिम्पिक्स् महोत्सवस्य परिसमाप्तिः; आगामि ओलिम्पिक्स्२०२४ मध्ये पारीस्।
टोक्यो> कोविड्कालखण्डे सम्पन्नस्य ३२तमस्य ओलिम्पिक्स् महोत्सवस्य शुभकरसमाप्तिः। कोविड्कारणेन संवत्सरैकं परिवर्त्य परित्याज्यमिति चिन्तायाः अन्ते एव मानवराशेः अतिजीवनस्य निश्चयदार्ढ्यस्य प्रतिरूपमिव महामहस्यास्य विजयप्रदा परिसमाप्तिः।
आगामि ओलिम्पिक्स् २०२४ तमे वर्षे फ्रान्स् राष्ट्रस्य राजधान्यां पारीस् नगरे सम्पत्स्यति।
टोक्यो मध्ये भारताय सुवर्णचरितं विरचयन् नीरजचोप्रः।
टोक्यो> टोक्यो ओलिम्पिक्स् महोत्सवस्य 'अतलटिक्स्' स्पर्धायां ह्यः नीरजचोप्रावर्येण प्रक्षिप्तं शूलं यदा ८७.५८ मीटर् परिमिते दूरे भूमिं निर्भिद्य स्थितम्। तदा भारतस्य कायिकचरिते नवयुगप्रसूतिरभवत्। १२५ संवत्सराणां प्रतीक्षायाः अन्ते ओलिम्पिक्स् कायिकमहोत्सवे अत्लटिक्स् विभागे कस्यचन भारतीयस्य प्रप्रथमं पदकं, तत्तु सुवर्णपदकम्! अनेन हरियानीयस्यास्य २३ वयस्कस्य दृढनिश्चयेन १३० कोटिजनानाम् आत्माभिमानं सुवर्णाञ्चितमभवत्।
शनिवासरे शूलप्रक्षेपस्पर्धायाः अन्त्यचक्रे प्रथमोद्यमे एव नीरजः ८७.०३मीटर् क्षिप्तवान्। द्वितीयोद्यमे क्षिप्तं ८७.५८ मीटर् दूरेण सुवर्णपदकं सुनिश्चितम्। चेक् रिप्पब्लिक् राष्ट्रस्य जाक्कूब वादलच् नामकः रजतपदकं, तद्राष्ट्रस्यैव वितेस्लाव् वेसलि नामकः कांस्यपदकं च प्राप्तवन्तौ।
जोण्सण् आन्ट् जोण्सण् संस्थायाः एकमात्रामितकोविड्वाक्सिनाय राष्ट्रे अनुमतिः प्रदत्तः।
ओलिम्पिक्स् वार्ताः - टोक्यो।
> वनिताहोक्की - तृतीयस्थाने ब्रिट्टनः।
महिलानां होक्कीस्पर्धायां कांस्यपदकमालक्ष्य पूर्वान्त्यचक्रे पराजितयोः दलयोः द्वन्द्वे भारतं पराजित्य ब्रिट्टनदलः पदकं प्राप्तवान्। अन्तिमनिमिषं यावत् प्रतिद्वन्दिनं प्रकम्पीकृत्य एव भारतमहिलाः ३- ४ इति क्रमेण पराभूताः अभवन्। परम्परायाः प्राथमिकस्तरे ब्रिट्टनं प्रति ४-१ इति रीत्या भारतं पराजितमासीत्।
> प्रासक्षेपस्य अन्तिमचक्रमद्य - प्रतीक्षया भारतम्।
प्रेसक्षेपस्पर्धानाम् अन्तिमा स्पर्धा अद्य भविष्यति। तस्यां भारतक्रीडकः नीरजचोप्रा अनितर्भवतीति भारतस्य पदकप्रतीक्षा वर्धयते। योग्यताचक्रे श्रेष्ठतमं प्रदर्शनं कृतवानासीत्।
ओलिम्बिक्स् प्रासक्षेपे नीरज चोप्रेण सुवर्णपदकम् प्राप्तम्।
धन्यवादः नीरजाय धन्यवादः टोक्यो देशाय।
अफ्गान्सर्वकारस्य माध्यमविभागाध्यक्षः तालिबानेन मारितः।
काबूल्> अफ्गानिस्थाने सर्वकारस्य उन्नतकार्यकर्ता तालिबानेन मारितः। अफ्गानसर्वकारस्य माध्यमविभागस्य अध्यक्षः दाव खान् मिनापल् एव काबूले शुक्रवासरे तालिबानेन मारितः। काबूलदेशस्थे देवालये शुक्रवासरे प्रचलिते प्रार्थनामध्ये आसीत् आक्रमणम्। तस्मिन् क्षणे एव दावखानः मृतः च इति आभ्यन्तरमन्त्रालयस्य कार्यकर्तारमुद्घृत्य रोयिट्टेष्स् नाम वार्तासंस्थया प्रतिवेदितम्।
अफ्गानविषये अद्य यू एन् चर्चा - अध्यक्षपदे भारतम्।
यू एन्> अफ्गानिस्थानस्य आभ्यन्तरयुद्धमधिकृत्य चर्चितुं भारतस्य आध्यक्षे संयुक्तराष्ट्रसमित्याः उपवेशः अद्य भविष्यति। अफ्गानस्य विदेशकार्यमन्त्री मुहम्मद हनीफ् अतमरः भारतविदेशकार्यमन्त्री एस् जयशङ्करेण सह कृतायाः चर्चायाः पश्चादेवायं निर्णयः।
चर्चानिर्णयं स्वागतं कृतवान् मुहम्दहनीफः भारताय कृतज्ञतां व्याहरत्। अफ्गानिस्थानस्य शान्त्यर्थं के के पदक्षेपाः स्वीकरणीयाः इति यू एन् समितिः चर्चिष्यते इति भारतस्य स्थिरप्रतिनिधिः अस्य मासस्य समित्यध्यक्षश्च टि एस् तिरुमूर्तिः न्यवेदयत्।
होक्यां कांस्यपदकप्राप्त्या भारतस्य सुवर्णशोभा।
टोक्यो> ओलिम्पिक्स् कायिकमहोत्सवपरम्परायाः होक्किस्पर्धायां भारताय अभिमानीकृतविजयः। कांस्यपदकमुद्दिश्य ह्यः सम्पन्नायां स्पर्धायां शक्तिमन्तं जर्मनीदलं ५-४ इति लक्ष्यकन्दुकक्रमेण पराजित्य भारतं कांस्यपदकं प्राप्तवत्। ओलिम्पिक्स् होक्कीस्पर्धासु ४१ संवत्सरानन्तरमेव भारताय किमपि पदकमिति कारणेन अस्मिन् कांस्यपदके सुवर्णकान्तिः वर्तते।
भारतस्य लक्ष्यस्थानपालकः केरलीयः पि आर् श्रीजेषः स्पर्धायामासकलं पदकप्राप्त्यर्थं निर्णायकं स्थानमवहत्। पूर्वान्त्यचक्रप्रवेशाय तथा कांस्यपदकप्राप्तये च तस्य पालनपाटवः अतुल्य आसीत्।
प्रधानमन्त्री राष्टपतिः इतरे च भारतस्य चरित्रविजये दलाय अभिनन्दनानि आशंसनानि च समर्पितवन्तः।
ओलिम्पिक्स् वार्ताः - टोक्यो ।
लव्लिना कांस्यं विजितवती।
महिलानां 'वेल्टर् वेय्ट्' नामके मुष्टामुष्टिस्पर्धायां भारतस्य लव्लिना बोर्गो हेय्न् नामिका कांस्यपदकं प्राप्तवती। असमराज्यीया भवति २३ वयस्का लव् लिना।
ह्यः सम्पन्ने पूर्वान्त्यचक्रे तुर्कीराष्ट्रस्य विश्वविजेत्री तथा विश्वस्य प्रथमस्थानीया बुसेनास् सुरमेनेली नामिकया पराभूता तथापि कांस्यं दृढीकृतवती।
नीरज चोप्रा अन्त्यचक्रं प्राविशत्।
पुरुषाणां प्रेसक्षेपस्पर्धायां भारतक्रीडकः नीरजचोप्रा प्रथमस्तरादेव अन्त्यचक्रं प्राविशत्। प्रथमे योग्यतामण्डले एव श्रेष्ठक्षेपणं कृत्वा [८६.७५मीटर्] एव सः अन्त्यचक्रं प्रविष्टवान्।