नवदिल्याम् अग्निबाधया ७ नवजातशिशवः हताः
नवदिल्ली>विवेकविहारः प्रदेशे विद्यमाने शिशूनाम् आतुरालये जायमानया अग्निबाधया ७ नवजाताः शिशवः हताः। उप द्वादश शिशवः अग्निशमन-रक्षासेनया रक्षिताः। शनिवासरे रात्रौ ११:३२ वादने आसीत् इयं दुर्घटना।
लोकसभानिर्वाचनस्य षष्ठं चरणमद्य।
नवदिल्ली> भारते लोकसभानिर्वाचनस्य षष्ठं चरणम् अद्य सम्पद्यते। सप्त राज्येषु एकस्मिन् केन्द्रप्रशासनप्रदेशे च व्याप्य स्थितेषु ५८ मण्डलेषु जनाः स्वाभिमतम् उल्लेखयन्ति। ओडीशा विधानसभायाः चतुर्षु मण्डलेषु च अद्य निर्वाचनं प्रचलति।
दिल्ली - ७, उत्तरप्रदेशः १४ इत्येतानि मण्डलानि विना पञ्चाबः हरियानं मध्यप्रदेशः इत्यादिषु राज्येषु च निर्वाचनं सम्पद्यते।
राफादेशे सैनिकप्रक्रमान् स्थगयितुम् अन्ताराष्ट्रन्यायालयेन इस्रायेलः आदिष्टः।
राफादेशे सैनिकप्रक्रमान् स्थगयितुम् अन्ताराष्ट्रन्यायालयेन इस्रायेलः आदिष्टः। तथापि इदानीमपि इस्रायेलेन पुनरपि व्योमाक्रमणं कृतम्। आक्रमणस्य स्थगनाय शुक्रवासरे न्यायालयेन निर्देशः दत्तः आसीत्। राफादेशे इस्रायेलः वंशहत्यां करोति इति उक्त्वा दक्षिणाफ्रिक्कया अन्ताराष्ट्रन्यायालयः संप्रार्थितः। अत एव आसीत् न्यायालये वादः तथा आदेशः च।
मुम्बै देशे रासवस्तु निर्माणशालायां विस्फोटः। ६० जनाः वृणिताः।
मुम्बै> ताने डोंबिवाली देशे रासवस्तु-निर्माणशालायां विस्फोटः जातः। ८ जनाः मृताः। मध्याह्ने १ः ३० वादने आसीत् स्फोटः। निर्माणशालातः विस्फोट त्रयः विस्फोटाः जाताः इति दृक्साक्षिणः वदन्ति। राक्षा प्रवर्तनानि अनुवर्तन्ते। मुख्यमन्त्री एकनाथषेन्दे अपघातस्थानं सन्दृष्टवान्। मृतानां कुटुम्बेभ्यः पञ्चलक्षं रूप्यकाणि समाश्वासरूपेण प्रदास्यते इति तेनोक्तम्।
ब्रिटने जूलाय् चतुर्थदिनाङ्के सामान्यनिर्वाचनम्।
लण्टनं> ब्रिटने प्रधानमन्त्री ऋषि सुनकः सामान्यनिर्वाचनं उदघोषयत्। जूलाय् मासस्य चतुर्थदिनाङ्के निर्वाचनं भविष्यति। मेय् मासस्य ३० तमे दिनाङ्के वर्तमानप्रशासनं निवर्तिष्यते।
किन्तु वर्तमानप्रशासनस्य कालपरिमाणाय मासाः अवशिष्यन्ते। ऋषि सुनकेन नेतृत्वमावहतः 'कण्सर्वेटीव् पार्टि' नामकदलस्य अधीशत्वे एव वर्तमानं प्रशासनं वर्तते। किन्तु दलस्य जनप्रीतिः अपचीयते इति राजनैतिकनिपुणानां मतम्।
वंगान्तरालसमुद्रे चक्रवातसाध्यता।
केरले वर्षाः अनुवर्तन्ते।
अनन्तपुरी> वंगान्तरालसमुद्रे अद्य न्यूनमर्दरूपीकरणस्य साध्यता प्रोच्यते ऋतुविज्ञानीयविभागेन। शुक्रवासरे अयं न्यूनमर्दः चक्रवातेन सह तीव्रन्यूनमर्द इति रूपान्तरं प्राप्स्यतीति सूच्यते। तीव्रन्यूनमर्दः बङ्गलादेशः म्यान्मरादि देशान् प्रति गमिष्यति।
केरले दिनचतुष्टयं यावदनुवर्तमाना ग्रीष्मकालवर्षाः दिनत्रयपर्यन्तम् अनुवर्तिष्यन्ते। विविधजनपदेषु जागरणनिर्देशः कृतः। पत्तनंतिट्टा इटुक्की जनपदाभ्यां अद्य अतितीव्रवर्षाणां रक्तजागरणसूचना दत्ता। श्वः इयं सूचना इटुक्की पालक्काट् जनपदाभ्यां च। अन्येभ्यः अष्ट जनपदेभ्यः तीव्रवर्षाणाम् ओरञ्च् जागरणसूचना दत्ता।
पञ्चमचरणे मतदानं ६०%।
नवदिल्ली> लोकसभानिर्वाचनस्य पञ्चमे चरणे ६० % जनाः स्वाभिमतं विनियुक्तवन्तः। षट् राज्येषु केन्द्रप्रशासनप्रदेशद्वये च व्याप्य स्थितेषु ४९ मण्डलेषु आसीत् ह्यस्तनं निर्वाचनम्।
अधिकतमं मतदानं पश्चिमवंगे आसीत् -७३. १४%। न्यूनतमं तु महाराष्ट्रे - ५३. ५१%। अनेन ४२८ मण्डलेषु निर्वाचनं सम्पूर्णमभवत्।
इरानस्य राष्ट्रपतिः सहयात्रिकाश्च उदग्रयानदुर्घटनया मृताः।
![]() |
| इब्राहिम रैसी। |
राष्ट्रपतिं विना उदग्रयाने विदेशकार्यमन्त्री, इतरे प्रशासनकर्तारश्च।
टहरान्> रविवासरे उदग्रयानदुर्घटनायां संलग्नाः इरानस्य राष्ट्रपतिः इब्राहिम रय्सिवर्यः [६३] विदेशकार्यमन्त्री हुसैन् अमीर् अब्दुल्लाहियानः [६०] अन्ये यात्रिकाश्च मृत्युवशं प्राप्ताः इति इरानराष्ट्रेण दृढीकृतम्। दिनद्वयं यावत् इरानजनतायाः प्रार्थना विफला जाता। राष्ट्रे पञ्चदिनात्मकं दुःखाचरणं प्रख्यापितम्।
इरानस्य उत्तरपश्चिमप्रान्तप्रदेशे असर्बैजानस्थे जोफापर्वतमण्डले रविवासरे मध्याह्ने राष्ट्रपतेः 'बेल् २१२' नामकमुदग्रयानं दुर्घटनायां संलग्नमभवत्। दुष्टं पर्यावरणं हिमानी च अस्याः कारणमिति सूच्यते।
तुर्की रष्या राष्ट्रयोः साह्येन कृते अन्वीक्षणे भञ्जितं उदग्रयानं मृतशरीराणि च दृष्टानि।
अखिलभारतीयदर्शनपरिषदः पुरस्कारः घोषितः।डॉ.कविताभट्टशैलपुत्री पुरस्कारजेत्री।
वार्ताहर:-कुलदीपमैन्दोला। श्रीनगरम्।
डॉ.कविताभट्टशैलपुत्री विशेषदार्शनिककार्यस्य कृते पुरस्कृता अस्ति। भारतस्य अखिलभारतीयदर्शनपरिषदः आगामिनि राष्ट्रियसम्मेलने प्रदत्तः भविष्यति पुरस्कार:। एषा महोदया विगतेभ्य: २५ वर्षेभ्यः भारतीयदर्शनं, योगदर्शनं, गीतादर्शनं, महिलासशक्तिकरणं, हिन्दीसाहित्यं च केन्द्रीकृत्य लेखनस्य दर्शनस्य च गूढविषयाणां प्रसारणाय समर्पिता अस्ति। मध्यप्रदेशस्य साहित्याकादमीतः 2019 तमस्य सवत्सरस्य अखिलभारतीय-साहित्याकादमीपुरस्कारं प्राप्तवती आसीत्। अस्या: अतिरिक्तं डॉ. भट्टः अनेके अन्ताष्ट्रियान् राष्ट्रियपुरस्कारान् यथा लोकनायकजेपीपुरस्कारं, गार्गी योगिनी पुरस्कारं, अरुणिमा सिन्हा तेजस्वी महिला उपलब्धिपुरस्कारं तथा सेवा अन्ताराष्ट्रियपुरस्कारं च प्राप्तवती। केन्द्रीयविश्वविद्यालयस्य दर्शनशास्त्रविभागे सहायकप्राध्यापिका तथा उत्तराखण्डस्य प्रख्यातलेखिका च भवति एषा महोदया।
लोकसभानिर्वाचनस्य पञ्चमचरणं श्वः; ४९ मण्डलेषु।
नवदिल्ली> भारते लोकसभानिर्वाचनस्य पञ्चमं चरणं श्वः सोमवासरे सम्पत्स्यते। षट् राज्येषु केन्द्रप्पशासनप्रदेशद्वये च आहत्य ४९ मण्डलेषु ६९५ स्थानाशिनः जनहितं कांक्षन्ति।
उत्तरप्रदेशस्य १४, महाराष्ट्रस्य १३ च मण्डलेषु श्वः निर्वाचनं भविष्यति। एतदन्तरा बिहारं - ५, झार्खण्डः - ३, जम्मू काशमीरं - १, लडाक् -१, पश्चिमवंगः ७ इत्येतेषु स्थानेषु च निर्वाचनं भविष्यति। ओडीशस्य ३५ विधानसभामण्डलेषु च श्व एव मतदानं सम्पद्यते।
बहुधा चर्चितं अमेठी, रायबरेली मण्डलद्वयमपि श्वस्तननिर्वाचने अन्तर्भवति।
किर्गिस्थाने स्वदेशि-विदेशिसंघर्षः - भारतीयछात्राणां कृते जागरणनिर्देशः।
नवदिल्ली> किर्गिस्थानराष्ट्रे स्वदेशीयाः विदेशीयाश्च मिथः प्रतिद्वन्दः अभवत्। अतः भारतीयछात्राः वासस्थानात् बहिर्गमनाय न उत्सहेरन् इति विदेशकार्यमन्त्रालयेन निर्दिष्टम्।
मेय् १३ तमे दिनाङ्के किर्गिस्थानस्य राजधान्यां बिष्कनगरे तद्देशीयछात्रैः सह ईजिप्तीयछात्राः प्रतिद्वन्द्वमकुर्वन्। तस्य दृश्यप्रचरणानन्तरं गतशुक्रवासरस्य रात्रौ तद्देशीयाः जनाः विदेशछात्राश्च मिथः संघर्षः अभवत्। एतस्याधारेणैव भारतेन छात्राणां कृते जागरणनिर्देशः कृतः। पाकिस्थानेनापि एतादृशः निर्देशः कृतः। १५,००० भारतीययुवकाः १०,००० पाकिस्थानीययुवकाश्च बिष्कनगरे वैद्यतन्त्रं पठन्तीति सूच्यते।
उत्तरगासायां तीव्रं युद्धं; 'जबलिया'नगरं नूतनं युद्धमुखम्।
![]() |
| जबलियानगरस्थे अभयार्थिशिबिरे कृते बोम्बवर्षस्य अनन्तरम्। |
राफा> हामासः उन्मूलित इति इस्रालयेन प्रख्यापिते गासाप्रदेशे तीव्रयुद्धम्। उत्तरगासायां जननिबिडतमं द्वितीयं नगरं जबलिया भवति नूतनं युद्धमुखम्। सप्तमासाभ्यन्तरे प्रचाल्यमानं तीव्रयुद्धमिति इस्रयेलेन अभिमानीकृतम्।
जबलियस्थं अभयार्थिशिबिरमासीत् हमाससेनायाः प्रवर्तनकेन्द्रमिति इस्रयेलेन सूच्यते। लक्षाधिकं अभयार्थिनः जबलियानगरम् अधिवसन्तीति गण्यते। रविवासरे आरब्धे युद्धे २०० हमाससैनिकाः हताः इति इस्रयेलेन सूचितम्।
सुनिल छेत्री क्रीडाङ्कणात् निवर्तते। 
सुनिल छेत्री
नवदिल्ली> भारतीयपादकन्दुकच्छत्राधिपतिः राष्ट्रीयसंघनायकः सुनिल छेत्रीवर्यः पादकन्दुकक्रीडायाः निवर्तनं प्रख्यापितवान्। जूण् षष्ठे दिनाङ्के कुवैट् देशं विरुध्य सम्पत्स्यमानायाः विश्वचषकयोग्यतास्पर्धायाः अनन्तरं भारतीयदले न स्यामिति सामाजिकमाध्यमेन बहिर्नीते वीडियोसन्देशे तेन स्पष्टीकृतम्।
२००५ तमे वर्षे सः पाकिस्थानेन सह प्रतिद्वन्द्वेन अन्ताराष्ट्रियपादकन्दुकक्रीडामञ्चं प्राविशत्। १५० स्पर्धासु ९४ लक्ष्यकन्दुकानि च प्राप्तवान्। राष्ट्राय अधिकतमानि लक्ष्यकन्दुकानि तस्य पदाभ्यामेव जातानि।२०१५ तमे वर्षे भारतस्य नायकपदं प्राप्नोत्। अर्जुन-पद्म-खेल् रत्नपुरस्कारैः सः समादृतः।
होरायां १३० कि. मी वेगः। आ गमिष्यति वन्दे मेट्रो।
चेन्नै> वन्दे मेट्रो इति पट्टिकाशकटस्य परीक्षण धावनं विनाविलम्बं भविष्यति इति इन्टग्रल् कोच् फाक्टरि संस्थाधिकारिणः अवदन्। जूण् जुलै मासे एव परीक्षणधावनं भविष्यति। १२ यात्रापेटिकाः सन्त्यस्मिन्। 'मेमु' रेल् यानस्प परिष्कृतं रूपं भवति इदम्। होरायां ११० -१३० इति वेगेन भविष्यति अस्य धावनम्। यानानां मिथः घट्टनस्य परिहाराय कवचः इति सुविधा अपि अस्मिन् सजीकृतः अस्ति। प्रति पेटिकायां शतानाम् उपवेष्टुं तथा द्विशतानां स्थातुं च शक्यते। प्रथमयात्रा चेन्नैतः तिरुप्पतिपर्यन्तं भविष्यति।
चतुर्थचरणे ६७. २५% मतदानम्।
बहुषु स्थानेषु अक्रमप्रवर्तनानि।
९६ लोकसभामण्डलेषु ह्यः सम्पन्ने निर्वाचने ६७. २५% सम्मतदायकाः स्वाभिमतं विनियुक्तवन्तः इति निर्वाचनायोगेन सूचितम्। गतं चरणत्रयमपेक्ष्य मतदानस्य शतमानं अधिकं वर्तते।
अधिकतरं मतदानं पश्चिमवंगे अङ्कितं - ८६. ०८%। न्यूनतमं तु श्रीनगरे - ३७%। पश्चिमवंगे तत्र तत्र संघर्षाः जाताः। बोलपुरं मण्डलस्थे केतुग्रामे कश्चन तृणमूलप्रवर्तकः बोम्बाक्रमणे हतः। आन्ध्रे गुण्डूरु मण्डलस्थे कस्मिंश्चित् मतदानस्थाने 'वै एस् आर् कोण्ग्रस् दलीयः विधानसभासदस्यः शिवकुमारनामकः मतदायकमताडयत् इत्यनेन संघर्षः जातः।
चरणचतुष्टये समाप्ते ७० % मण्डलेषु निर्वाचनं समाप्तम्। दक्षिणभारतस्य सर्वेषु राज्येषु मतदानं सम्पूर्णमभवत्।
केन्द्रीयमाध्यमिकशिक्षामण्डल-परिणामः घोषितः।
नवदिल्ली> केन्द्रीय-माध्यमिक शिक्षा-मण्डलेन (सी.बी.एस.ई.) इत्यनेन दश-द्वादश-कक्षयोः परिणामाः घोषिताः। द्वादशकक्षायां सप्ताशीति दशमलव नवाष्ट प्रतिशतं छात्राः उत्तीर्णाः। यत् विगतवर्षापेक्षया शून्यदशमलवषड्पञ्च प्रतिशतम् अधिकं वर्तते। अस्य वर्षस्य सञ्जातपरीक्षायां चतुर्विंशतिसहस्राधिकं छात्रैः पञ्चनवतिः प्रतिशतं अङ्काः समर्जिता तत्रैव सपादलक्षाधिकं छात्रैः प्रतिशतं नवति अङ्काः अधिगताः। छात्राः www.cbseresults.nic.in इत्यत्र उतवा www.cbse.gov.in इत्यत्रापि स्वीयपरिणामान् अवलोकयितुं शक्नुवन्ति। प्रधानमन्त्री नरेन्द्रमोदी सी.बी.एस.ई; परिक्षायाम् उत्तीर्णनां छात्राणाम् अभिनन्दनं कृतवान्। छात्राणाम् उपलब्ध्या तेषां नैरन्तर्येण विहितैः प्रयासैः अत्यन्तं गर्वितः अस्ति इति एकेन सामाजिक-अन्तर्जाल-माध्यमेन सः उक्तवान्।
लोकसभा-निर्वाचनस्य चतुर्थचरणस्य मतदानं समारब्धम्।
लोकसभा निर्वाचनस्य चतुर्थचरणस्य मतदानं अद्य प्रातः सप्तवादने समारब्धम्। नवराज्यानाम् एकस्य केद्रशासितप्रदशस्य च षण्णवतिः लोकसभास्थानेषु भवति अद्यतनमतदानम्। एते तेलगानास्थाः सप्तदश उत्तरप्रदेशस्य त्रयोदश झारखण्ड-ओडिशा- राज्ययोः प्रत्येकं चत्वारि आन्ध्र-प्रदेशस्य पञ्चविंशतिः महाराष्ट्रस्य एकादश मध्यप्रदेश-पश्चिमबंगयोः अष्ट बिहारस्य पञ्च सहैव जम्मू-कश्मीरस्य एकम् लोकसभास्थानं च वर्तते। लोकसभानिर्वाचनस्य चतुर्थचरणाय आहत्य सप्तदशाधिक- सप्तशतं प्रत्याशिनः नैर्वाचनिक-समराङ्गणेषु सन्ति।
संस्कृतभारती केरलराज्यम् - वार्षिकमेलनम्
पालक्काट् ११ , १२ मै २०२४. पूजनीयः स्वरूपानन्दसरस्वतीस्वामिपादः, समादरणीयः सङ्गीताचार्यः मण्णूर् राजकुमारनुण्णि, माननीया पालक्काट् नगरपालिकाध्यक्षा प्रमीलाशशिधरन् प्रोफ के शशिकुमारमहाशयः स्वागतसङ्घस्य संस्कृतभारत्याश्च आदरणीयाः पदाधिकारिणः कार्यकर्तारः तथा बहवः संस्कृतोपासकाश्च सन्निहिताःआसन् ।
पाम्पन् सेतोः निर्माणं आगमिनि मासे पूर्णतां प्राप्स्यति।
चेन्नै> पाम्पन् द्वीपं रामेश्वरं च भूखण्डेन सह संबध्नातुम् आविष्कृतः नूतन-समुद्रोपरितल-सेतुमार्गः समाप्तप्रायः भवति। महानौकायाः गमनसमये सेतुः उपरि उत्थास्यति। तदर्थं भीमाकारस्य उद्धरणकस्य (Lift) उभयानुबन्धकस्य अतीव कठिनतरम् उद्ग्रथनकर्म यथाविधि इदानीं सज्जीकृत्य प्रवर्तनाभ्यासं तस्य निरीक्ष्यते। प्रक्षुब्धे समुद्रे २.८ कि. मि. आयते निर्मितस्य सेतोः३३१ स्थम्भाः९९ स्तम्भबन्धाः (Girder) च सन्ति। जूण् मासस्य अन्तिमपादे सेतोः निर्माणप्रवर्तनानि पूर्णतां प्राप्स्यन्ति इति दक्षिण-रेल् यानविभागस्य अधिकारिणा प्रोक्तमस्ति।
अशोकन् पुरनाट्टुकरा -भारतमुद्रा पुरस्कारः समर्पितः।
अयुर्वेदभिषग्वराय डा. टि श्रीकुमाराय 'भारतमुद्रा' पुरस्कारः समर्प्यते। पि वि कृष्णन् , डा. वि के विजयः, पि. के राजन् मास्टर्, टि वि चन्द्रमोहन्, वैद्य एम् प्रसाद्, सुकुमारन् मास्टर्, एन् राजगोपालः, अनुरागः, अजिता, आर् नन्दकिषोरः, डा. एस् एन् महोष् बाबुः च भागं स्वीकृतवन्तः।
सूर्यमण्डले अतितीव्रः सौरवातः भविष्यति। वैद्युतिवितरणं विमानसेवां च प्रबाधेत।
वाषिङ्टण्> अस्मिन् सप्ताहान्ते सूर्यमण्डले अतितीव्रः सौरवातः भविष्यति इति पूर्वसूचना अस्ति। सौरवातः भूमिं बाधिष्यते इति यु एस् राष्ट्रस्य बाह्याकाश -वातावरण - प्रवचन केन्द्रेण आवेदितम्। भूतले जीविनः भूमेः कान्तिकक्षेत्रेण सौरयूथवातात् संरक्ष्यन्ते। किन्तु सूचनासंवेदकतरङ्गानां घटनायां(signal system) विघ्नाः भवेयुः। बाह्याकाशपेटिकाः स्वपथात् व्यतियानं स्यात् इति वैज्ञानिकाः अभिप्रयन्ति। सूर्यस्य अन्तरिक्षे जायमानः सौरवातः शुक्रवासरे विलम्बेन आरभ्य रविवासरपर्यन्तं स्थास्यति इत्येव निगमनम्। मा किं६० निमेषः आरभ्य९० निमेषपर्यन्तं अस्य प्रभावः भविष्यति।
राफाप्रदेशात् अपसर्तुं इस्रयेलस्य निर्देशः - स्थलाक्रमणभीतिः।
जरुसलेमः> गासाप्रदेशस्य दक्षिणभागे १४ लक्षं पालस्तीनीयानाम् अधिवासभूमेः राफानगरात् अपसर्तुं तद्देशीयान् इस्रयेलस्य कर्कशनिर्देशः। अनेनात्र इस्रयेलस्य स्थलाक्रमणम् आरभ्यते इति आशङ्का जाता। राफाप्रदेशे स्थलयुद्धं न कुर्यादिति यू एस् राष्ट्रेण इस्रयेलं Skirt बहुवारमभ्यर्थितम्।
प्रत्युत, परं सुरक्षितमिति इस्रयेलेन निर्दिष्टं मुवासि नामकं प्रदेशं गन्तुमेव पालस्तीनीयान् प्रति निर्दिष्टमिति इस्रयेलसेनाधिकारिणा लफ्टणन्ट् केणल् नदव् शोशानी इत्यनेन उक्तम्।
केरले अतितापः उष्णतरङ्गभीषा च अनुवर्तते।
अनन्तपुरी> केरलराज्ये मासद्वयाधिकं यावदनुवर्तमाने ग्रीष्मकाले अतितापः आकेरलं जनान् क्लेशयति। राज्ये सर्वत्र जलदौर्लभ्यः, कृषिनाशः, प्राणिविनाशश्च अनुभूयन्ते। पालक्काट्, कोल्लं, तृशूर् जनपदेषु तापमानं ३८ - ४० डिग्रि सेल्षियस् अनुभूयते।
राज्यं केन्द्र ऋतु विज्ञानीयविभागेन उष्णतरङ्गपट्टिकायां अन्तर्भावितम्। केरलस्य समुद्रतीरेषु 'अलीक समुद्र विक्षोभः' बहुवारं जायते स्म।
इटुक्की, पालक्काट्,मलप्पुरं, वयनाट्, तृशूर्, कोषिक्कोट्, कोल्लं जनपदेषु कदली, व्रीही, शाकानि इत्यादीनि कार्षिककैदार्याणि, एला मरीच जतु कह्वा जात्यादयः नाण्यकैदार्याश्च अनावृष्ट्या नाशितानि जातानि। मासैकाभ्यन्तरे शतकोटिरूप्यकाणाम् उत्पादननष्टं जातमिति कृषिविभागस्य प्राथमिकं गणनम्। अत्युष्णेन पञ्चशताधिकाः दोहनक्षमाः गावः विनष्टप्राणाः जाताः। अतितापनिमित्तनिर्जलीकरणेन द्वौ मनुष्यावपि मृतौ।
मेय् मासस्य अष्टमदिनाङ्कपर्यन्तम् अत्युष्णः अतितापश्च अनुवर्तिष्यते इति पर्यावरणविभागेन सूचितम्।