माघमहामेला सम्पन्ना
निला अतिनिर्माला जाता ।
तिरुनावाय> केरले महामाघमेला निलानद्याः तीरे सम्पन्ना जाता। २५ लक्षं जनाः पुण्यतीर्थस्नानाय निलातीरं प्राप्तवन्तः। १९ दिनानि यावत् अनवरतं जनाः तत्र आगताः। तथापि मालिन्यं विना पूर्वाधिकं शुद्धतया प्रवहति निलानदी इति अत्भुतं जनयति। जनबाहुल्यान् नियन्त्रितुं मालिन्यं विना नदीमातरं पालयितुं च सेवाभारत्याः कर्मकुशलाः युवभगीरथाः तत्र निवसन्तः आसीत्। अतः सर्वकारस्य साहाय्यं विनापि नद्यः शुद्धतां पालयितुं शक्ताः अभवन् सेवाभारत्याः प्रवर्तकाः। अस्ति - आगामि संवत्सरेषु अपि नूनं प्रवहिष्यति निला निर्मलेन मातृभावेन । सेवननिरताः तस्याः पुत्राः तां पालयिष्यन्ति।


.jpg)

.jpeg)
.jpeg)

.webp)




.jpeg)



