OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, January 27, 2026

 गणतन्त्रदिनं समुज्वलं सम्पन्नम्। 

१३१ पद्मपुरस्काराः उद्घोषिताः। 


नवदिल्ली> भारतस्य ७७ तमं गणतन्त्रदिनं सम्पूर्णे राष्ट्रे विविधैः राष्ट्रभिमानोन्मुखकार्यक्रमैः  समुज्वलं सम्पन्नम्। नवदिल्ल्यां कर्तव्यपथे सेनात्रयस्य पथचलनं, निश्तलदृश्यानि, व्योमाभ्यासप्रदर्शनानि इत्यादिभिः कार्यक्रमैः गणतन्त्रदिनोत्सव‌ः गभीरं प्रौढोज्वलं चासीत्। 

  दिनोत्सवस्य अंशतया १३१ पद्मपुरस्काराः राष्ट्रेण उद्घोषिताः। तेषु ५ पद्मविभूषणानि,१३ पद्मभूषणानि, ११३ पद्मश्रियश्च सन्ति। महाराष्ट्रीयः धर्मेन्द्र सिंह डियोलः,केरलीयाः वि एस् अच्युतानन्दः [भूतपूर्वमुख्यमन्त्री], न्यायाधीशः के टि तोमसः, पि नारायणः, उत्तरप्रदेशीया एन् राजम् वर्या च पद्मविभूषणपुरस्कारेण सम्मानिताः। भारतवंशजौ अमेरिक्कीयौ डो. नोरि दत्तात्रेयडु [स्वास्थ्यक्षेत्रं], विजय अमृतराजः[कायिकं] च पद्मभूषणेन पुरस्कृतौ। तानतिरिच्य महाराष्ट्रतः त्रयः, तमिलनाडतः द्वौ, केरलतः द्वौ, उत्तरखण्डः कर्णाटकं, झार्खण्डः, दिल्ली इत्येतेभ्यः राज्येभ्यः एकैकश्च विभिन्नमण्डले श्रेष्ठकर्मभ्यः पद्मभूषणपुरस्कारेण समादृताः। इतरे ११३ विशिष्टाः पद्मश्रीपुरस्कृताः जाताः।