सन्तोष् ट्रोफी पादकन्दुकं
केरल-वंग-तमिल् नाटदलाः प्रपूर्वान्त्यं प्रविष्टाः।
दिब्रुगढः [असमः]> भारतस्य राष्ट्रियपादकन्दुकक्रीडा सन्तोष् ट्रोफी नामकपुरस्काभिधाना असमराज्ये पुरोगम्यते। संघद्वयेन १२ दलाः परस्परं स्पर्धन्ते। केरलं, पश्चिमवंगः, तमिलनाट्, असमदलाः प्रपूर्वान्त्यस्तरे स्थानं दृढीकृतवन्तः।
बी संघे प्रथमस्थानमवाप्तं केरलं ए संघे चतुर्थस्थानं प्राप्तेन आतिथेयेन असमेन सह स्पर्धिष्यते। ए संघे विद्यमानौ उत्तरखण्ड-नागालान्टदलौ क्रीडापरम्परायाः बहिर्नीतौ।