टि-२० क्रिकट् - परम्परा भारतेन प्राप्ता।
गुवाहाटी> भारत-न्यूसिलान्टयोः टि-२० क्रिकट् परम्परा भारतेन प्राप्ता। पञ्चस्पर्धात्मिकायाः परम्परायाः प्रथमतिस्रः स्पर्धाः विजित्य एव भारतस्य परम्पराप्राप्तिः।
गुवाहाटि क्रीडाङ्कणे सम्पन्ने तृतीये प्रतिद्वन्द्वे २० क्षेपणचक्रेषु न्यूसिलान्टेन प्राप्ताः १५३ धावनाङ्काः प्रत्युत्तरक्रीडायां केवलं १० क्षेपणचक्रेषु भारतेन अतिक्रान्ताः। कन्दुकताडने, कन्दुकक्षेपणे, क्षेत्ररक्षणे च भारतस्य सम्पूर्णाधिपत्यं प्रकटमासीत्।