अमेरिकाभूखण्डे अतिशैत्यम्।
शीतवायुप्रवाहे हिमपाते च ३० मरणानि।
न्यूयोर्क्> अमेरिकायां ताण्डवनृत्तं क्रियमाणे 'राक्षसवातः' इति कथ्यमाने प्रचण्डशीतवातप्रवाहे महति हिमपाते च अद्यावधि ३० जनाः मृत्युमुपगताः। अतिशैत्येन २० जनाः, हिमपातसम्बधाभिः दुर्घटनाभिः इतरे च मृताः। न्यूयोकनगरे ८ मरणानि प्रस्तावितानि।
गतदिने अमेरिकायां ५. ४ लक्षं जनाः विद्युतस्थगनेन क्लेशमनुभूतवन्तः। रविवासरे ११,००० विमानसेवाः निरस्ताः। ५५०० सेवाः विलम्बीकृताः। कानडाराष्ट्रे अपि हिमपातः तीव्रः वर्तते।