OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, January 29, 2026

 महाराष्ट्रस्य उपमुख्यमन्त्री

अजित पवारः विमानदुर्घटनया मृतः। 


मुम्बई> महाराष्ट्रस्य उपमुख्यमन्त्री तथा एन् सि पि दलस्य वरिष्ठनेता च अजित पवारः [६६] बारामत्यां दुरापन्नया विमानदुर्घटनया मृतः। बुधवासरे प्रभाते ८. ४० वादने तेन अटनं कृतवत् लघुविमानं साङ्केतिकदोषकारणेन आपत्कालिकावतरणवेलायां भग्नीभूय अधः पतितमासीत्। तेन सह यात्रां कृतवन्तः चत्वारः अपि मृत्युभूताः। 

  जिल्लापरिषदः निर्वाचनप्रचरणाय बारामतीं गमनासन्दर्भे आसीत् दुर्घटना। एन सि पि दलनेतुः शरत् पवारस्य सोदरस्य पुत्रः भवति अजित पवारः।