भारत-न्यूसिलान्ट टि २०
चतुर्थस्पर्धायां भारतस्य पराजयः।
विशाखपत्तनं> भारत-न्यूसिलान्टयोः टि-२० क्रिकट् परम्परायाः चतुर्थस्पर्धायां भारतं पराजयं प्राप। ५० धावनाङ्कैः आसीत् भारतस्य पराजयः।
प्रतिद्वन्द्वस्य प्रथमचरणे न्यूसिलान्टः सप्तद्वारकाणां विनष्टे २१५ धावनाङ्कान् सम्प्राप। भारतस्य प्रत्युत्तरं १८. ४ क्षेपणचक्रेषु १६५ धावनाङ्कान् सम्पाद्य सर्वे बहिर्गताः। परम्परायां प्रथमाभिभवः अपि भारतं ३-१ इति क्रमेण परम्परायाम् अग्रे तिष्ठति। पञ्चमः अन्तिमश्च प्रतिद्वन्द्वः शनिवासरे अनन्तपुर्यां सम्पत्स्यते।