कण्वाश्रमे योगप्रतियोगिता–पुरस्कारवितरणं तथा शक्तिप्रदर्शनकार्यक्रमश्च सम्पन्नः।
कण्वाश्रमे वसन्तोत्सवस्य पावनावसरे योगप्रतियोगिता–पुरस्कारवितरणं तथा शक्तिप्रदर्शनकार्यक्रमश्च अत्यन्तं भव्यतया हर्षोल्लासेन च सम्पन्नः। अस्मिन् आयोजने योगस्य शारीरिक–मानसिक–आध्यात्मिकमहत्त्वं प्रतिपादयितुं विविधाः प्रतियोगिताः आयोजिताः, यत्र बालकाः, बालिकाश्च उत्साहपूर्वकं सहभागं कृतवन्तः।
योगप्रतियोगितायां सर्वश्रेष्ठयोगी इति उपाधिना सार्थकः कण्डवालः सम्मानितः, तथा सर्वश्रेष्ठयोगिनी इति उपाधिना संस्कृतिः गुसैं अलङ्कृता।कलात्मक–योगासनप्रतियोगितायां सौम्या शर्मा प्रथमस्थानं प्राप्तवती, तुलसी जुयाल: द्वितीयस्थानं तथा वंशिका बौंठियाल: तृतीयस्थानं प्राप्तवती।
सामूहिक–प्रारम्भिक–योगासनप्रतियोगितायां गुरुकुलमहाविद्यालयः ज्वालापुरः प्रथमस्थानं प्राप्तवान्, सार्थकयोगशाला द्वितीयस्थानं तथा वैदिकगुरुकुलः कण्वाश्रमः तृतीयस्थानं प्राप्तवान्। सर्वेषां विजेतॄणां सम्मानार्थं आयोजिते पुरस्कारवितरणसमारोहे मुख्यातिथिरूपेण भारतीयजनतापक्षस्य श्रीराजगौरवः नौटियालः उपस्थितः आसीत्। अतिथिभि: अत्र स्वकरकमलाभ्यां विजेतृभ्यः पदकानि, प्रमाणपत्राणि तथा पदकं प्रदाय सम्मानं कृतं। अतिभि: योगस्य जीवनोपयोगिता, अनुशासनस्य आवश्यकता तथा युवसन्तते: शारीरिक–मानसिकस्वास्थ्ये योगस्य महत्त्वं विशेषतया प्रतिपादितम्। अत्र संस्कृतभारत्या: कार्यकर्तृषु पंकजध्यानी, रोशनबलूनी, गणेशपसबोला इत्यादय: स्थानीया: जना: उपस्थिता: आसन् ।

