OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, January 30, 2026

 ट्रम्पस्य भीषा

शक्तः प्रत्याघातः भविष्यतीति इरानः। 

टेह्रान्> यू एस् पक्षतः यत्किमपि आक्रमणं भविष्यति चेत् शक्तः प्रत्याघातः भविष्यतीति इरानस्य विदेशकार्यमन्त्री  अब्बास् अराग्चि इत्यनेन पूर्वसूचना दत्ता। "अस्माकं भूमिम् आकाशं समुद्रं वा विरुद्ध्य भविष्यमाणम् आक्रमणं तस्मिन् समये एव  प्रतिरोद्धुं इरानस्य सायुधसेना पूर्णसज्जा वर्तते। तेषामङ्गुल्यः शतघ्निप्रयोगक्षमाः सत्यः प्रतीक्षन्ते एव।"अराग्चिना एक्स् मध्ये सूचितम्। 

  आणवनिर्व्यापनाय सन्नद्धः न भवेत्तर्हि इरानं प्रति तीव्रमाक्रमणं भविष्यतीति यू एस् राष्ट्रपतेः डोनाल्ड ट्रम्पस्य भीषायाः आधारे अस्ति इरानस्य प्रत्युत्तरम्।