कानडा प्रधानमन्त्री भारते।
विभिन्नक्षेत्रेषु भागांशसन्धयः हस्ताक्षरीकृताः।
![]() |
| हैदराबादहौसे मार्क कार्णी - मोदिनोः मेलनम्। |
नवदिल्ली> संवत्सरद्वयस्य परस्परास्वारस्यं विस्मृत्य भारत-कानडयोर्मध्ये ऊर्ज-रक्षा-आर्थिक-शैक्षिकमण्डलेषु परस्परसाहाय्यसन्धयः हस्ताक्षरीकृताः। गतदिने कानडायाः प्रधानमन्त्री मर्क् कार्णी इत्यनेन सह भारतस्य प्रधानमन्त्री नरेन्द्रमोदी नवदिल्ल्यां हैदराबाद हौस् इत्यत्र कृतायाः चर्चायाः अनन्तरं परस्परसहयोगस्य अनुकूलता सम्पन्ना।
सन्धिमनुसृत्य कानडाराष्ट्रात् भारताय दीर्घकालं यावत् 'यूरेनियं' नामकस्य धातोः दानाय कृतः सन्धिः तेषु प्राधान्यमर्हति। एतत्तु भारतस्य ऊर्जमण्डले बृहत्परिणामाय कारणं भविष्यति। २. ६ बिल्यण् डोलर् मितमूल्ययुक्तं सन्धिं केन्द्रसर्वकारस्य आणवोर्जविभागः कनेडियसंस्था कामेको नामिका च मिथः हस्ताक्षरं कृतम्।
उच्चस्तरीय शैक्षिकमण्डलमभिव्याप्य विभिन्नक्षेत्रेषु परस्परसहयोगार्थं अष्ट अभिसन्धयः हस्ताक्षरीकृताः। १६ संवत्सराणि यावत् चर्च्यमानः समस्तः आर्थिकभागभाक्त्वसन्धिरपि अस्मिन् वर्षे एव साक्षात्कर्तुं निर्णयोSभवत्।
'


.jpeg)





.webp)




