OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, March 13, 2018

चन्द्रयानम् २ आगामि मासे विक्षिप्यते- ऐ एस् आर् ओ।
         चेन्नै> भारतबाह्याकाशानुसन्धान केन्द्रेण निर्मितः क्रित्रिमोपग्रहः चन्द्रयानं द्वितीयम् इति नामकः एप्रिल् मासे विक्षिप्यते इति अध्यक्षेण डा. शिवेन उक्तम्। चन्द्रस्य उपरितलं सूक्ष्मतया निरीक्षितुं शक्यते अनेन। येनकेनापि कारणेन विक्षेपणं स्थगितं चेदपि अक्टोबर् मासे विक्षेपणं भविष्यति इति डा शिवेन उक्तम्। 
       भ्रमणपथे चन्द्रं परितः भ्रमणाय पेटिका, दक्षिण ध्रुवे अवतारयितुम् उद्दिश्य अवतारिणिका, चन्द्रोपरितलपर्यवेषणाय षट्चक्रिकं विशेषयानम् इति भागत्रयं  वर्तते चन्द्रयाने द्वितीये। चन्द्रोपरितलस्थाः मृदः गुणविशेषान् अपि उपग्रहः ततः प्रेषयिष्यते। चन्द्रयानेन सह वार्ताविनिमयाय जि साट् ६ (GSLV F.08)अपि विक्षेपणाय सज्जीकरिष्यति इति च अध्यक्षेण उक्तम्।