OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, March 18, 2018

पिहिताः  मद्यशालाः पुनरुद्घाटयितुं मार्गान्तरं दत्वा केरलसर्वकारः। 
     अनन्तपुरी > राष्ट्रिय- राज्यवीथिभ्यः निश्चितदूरानपेक्षितत्वेन पिहिताः सर्वाः 'त्रीस्टार्' मदिराशालाः बियर् वैन् शालाश्च पुनःस्थापयितुं केरले सुपथमायाति। दशसहस्राधिकाः जनसंख्यापरिमिताः सर्वे ग्रामाः दूरपरिधिनियमात् बहिरागमिष्यन्ति। एतादृशान् ग्रामान् नगरप्रदेशान् परिकल्पयितुं स्पष्टीकृत्य सर्वकारस्य आदेशः प्रकाशितः। राज्ये भूरि ग्रामाः अयुतपरिमितजनसंख्यातिरिक्ताः वर्तन्ते। 
       नगरस्वभावीयेषु ग्रामेषु अपि राष्ट्रिय - राज्य्यीयवीथिभ्यः दूरपरिधिम् अपालयन् मद्यविक्रयणशालाः सम्प्रवृत्तनीयाः इति सर्वोच्चन्यायालयस्य आदेशमाधारीकृत्यैव केरलसर्वकारस्य नूतनादेशः।