OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, March 25, 2018

'केम्ब्रिज् अनलटिक्का' कार्यालयेषु आवेक्षणं संवृत्तम्। 
   लण्टन् > पञ्चकोटि 'फेस् बुक्' उपयोक्तृतॄणां वैयक्तिकसूचनाः अपहृताः इत्यस्मिन् विषये दत्तांशशोधनसंस्थायाः केम्ब्रिज् अनलटिक्का नामिकायाः लण्टनस्थेषु कार्यालयेषु 'ब्रिटीष् एन्फोर्स्मेन्ट्' अधिकरिभिः आवेक्षणं कृतम्। आवेक्षणाय ब्रिटनस्य उच्चन्यायालयेन अनुज्ञा दत्ता आसीत्। 
   सप्तहोराः यावत् अन्वीक्षणम् अनुवर्तितम्। फेस्बुक् उपयोक्तॄतॄणां वैयक्तिकवृत्तान्तान् अपहृत्य अमेरिक्कन् राष्ट्रपतिनिर्वाचनम् अभिव्याप्य विश्वे सर्वेषु प्रमुखनिर्वाचनेषु मतदातॄन् वशीकर्तुम् उपयुक्तवन्तः इति प्रस्तावः एव केम्ब्रिज् अनलटिक्कां विवादास्पदाम् अकरोत्।