OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, March 23, 2018

कर्ममण्डलपरिवर्तनप्रयत्नः - राष्ट्रे महान् प्रतिषेधः। 
        नवदिल्ली > भारतस्य कर्ममण्डले महत्परिवर्तनाय उद्दिश्यमानं केन्द्रसर्वकारेण विज्ञापितं Industrial Employment (standing orders) Central abutment rule 2018 नामकं कर्मशीलतानियमं विरुध्य राष्ट्रे सर्वत्र कर्मकरसंघटनानां नेतृत्वे महान् प्रतिषेधः जायमानः अस्ति। नूतनीं व्यवस्थामनुसृत्य सर्वेषु उद्योगमण्डलेषु परं चिरस्थायिकर्मणां स्थाने निश्चितकालीनानि  आकुञ्चितकर्माणि एव स्युः। 
            नूतनं नियममनुसृत्य संघटितमण्डलेषु स्थिरस्वभावयुक्तं कर्ममण्डलं समापयिष्यति। प्रतिषेधं दृढीकर्तुं एप्रिल् मासस्य द्वितीयदिनाङ्के राष्ट्रियकर्मविरामः प्रख्यापितः अस्ति।