OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, March 12, 2018

 षि जिन् चीनायाः आजीवनान्तचक्रवर्ती। 
         बेय्जिङ् > चीनाराष्ट्रपतिः 'षी जिन् पिङ्' नामकः परं राष्ट्रस्य सर्वाधिपतिः भविष्यति। सः आजीवनान्तं राष्ट्रपतिपदे वर्तितुं राष्ट्रस्य अनुशासननियमः न विघातः भविष्यति। वारद्वयाधिकं एकः राष्ट्रपतिपदमलङ्कर्तुं नार्हतीति तस्य राष्ट्रस्य अनुशासनव्यवस्थां निराकृत्य चीनायाः सामाजिकसभायाः   [नेषणल् पीपिल्स् कोण्ग्रस्] सांवत्सरीयपरिषदा अनुशासनधर्मस्य संशोधनं कृतम्।
      २०१३ तमे अधिकारं प्राप्तस्य षि जिन् पिङ्ङस्य शासनावधिः २०२३ तमे वर्षे समाप्तिं प्राप्स्यति इत्यस्मिन् सन्दर्भे एव प्रमुखोऽयं निर्णयः। २०१२ तमे चैना कम्म्यूणिस्ट् दलस्य सचिवप्रमुखत्वेन अधिकारं प्राप्तः षि जिन् तस्मादारभ्य सर्वान् प्राक्तनाचारान् उल्लङ्घ्य  दलस्य तथा राष्ट्रस्य च एकाधिपतिः भवितुं प्रवर्तनानि तेन आरब्धानि। दलस्य शासनसंविधाने स्वस्य नाम राजनैतिकतत्त्वानि च अन्तर्भाव्य चीनाराष्ट्रपितुः मावो से तूङ् वर्यस्य समानः भवितुमुद्दिश्य तस्य प्रयत्नः सफलो जातः।