OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, March 17, 2018

विंशति वर्षाणि यावत् मार्गेण धावयिष्यन्ति यानानि। नूतनया  योजनया केन्द्रसर्वकारः।
        नवदिल्ली> अपघातानि न्यूनीकर्तुं यात्रां सुगमां कर्तुं  अन्तरिक्ष-मलिनीकरणानि नियन्त्रण-विधेयानि कर्तुं नूतनया पद्धत्या केन्द्रसर्वकारः। पद्धतिरनुसृत्य बस् ट्रक् लारि टाक्सि वाहनानां आयुः निश्चितम् । विंशति वर्षेभ्यः   उपरि प्रचीनानि वाणिज्य-वाहनानि २०२० तम  संवत्सरानन्तरं धावयितुम्  अनुज्ञा न स्यात्। किन्तु स्वीययानस्य क्षमतापत्रम् अस्ति चेत् पुनरपि उपयोक्तुं शक्यते। प्रधानमन्त्री, गतागत-परिस्थिति-धनमन्त्रिणः नीति आयोगस्य अङ्गाः च मिलित्वा एव निश्चयः स्वीकृतः। नियमस्य प्रबलतायां जायमानायां सत्यां सप्तलक्षं वाणिज्यवाहनानि मार्गतः निष्क्रमिष्यन्ते। विंशति वर्षानन्तरं  यानानां पञ्जीकरणं स्वयमेव निर्गमिष्यति। क्षमतारहित वाहनानि परित्यज्य नूतनानां क्रयणाय काचन न्यूनीकरणप्रक्रिया केन्द्रसर्वकारेण विज्ञापयिष्यते। नूतनानां प्रतिशतं दश इति क्रमेण न्यूनीकरणम् इत्येव भवति निर्देशः।