OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Monday, March 19, 2018

अस्ति पूर्वस्यांदिशि देशभक्तानां ग्रामः।
          अभयनगरम् > वङ्ग-राज्यस्य नादिया जनपदे अभयनगरं नाम ग्रामः अस्ति। अत्रत्याः जनाः एव विश्वे देशभक्तानां गणनायां प्रप्रथमाः। प्रतिदिनं प्रभाते १०.५० वादने सर्वे जनाः भारतस्य राष्ट्रगीतं साभिमानम् आलपति। गृहे विद्यमानाः याने गम्यमानाः पादचारिणाः कर्मकराः एवं सर्वे ग्रामीणाः अवधानतया तिष्ठन्ति। ग्रामस्य प्राथमिक विद्यालयात् राष्ट्रगीतं तस्मिन्नेव  समये प्रवहति। कालान्तरादेव आरब्धा इयं रीतिः इदानीमेव अनुवर्त्यते। ग्रामजनानां शारीरमासकलं विलीना भवति इयं रीतिः। राष्ट्रगीतस्य ५२ क्षणकालं निश्चलं तिष्ठन्ति ते। अभयनगरग्रामस्य प्राथमिक-विद्यालयस्य अध्यापकस्य साफि कुल् इस्लामस्य निर्देशमनुसृत्य एव ग्रामीणाः प्रतिदिनम् एवं कुर्वन्ति। जनानां हृदयेषु राष्ट्रस्नेहं पूरयतुं शक्यते अनेन इति प्रधानाध्यापकः अवदत्I विद्यालयतः उच-भाषिणिद्वारा राष्ट्रगीतश्रवणं यदा भवति तदा एव स्व कर्मात्  प्रतिनिवर्त्य   सर्वे ग्रामीणाः ५२ क्षणं सादरं तिष्ठन्ति। तस्मिन् क्षणे किमपि भवतु तत्र राष्ट्रगीतं विनास्तगनं अनुवर्तते।