OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, March 26, 2018

वाहनानि आधारपत्रेण सह बन्धितुम्  ओलोच्यते।
       कोच्ची > सर्वाण्यपि वाहनानि स्वामिनाम् आधारपत्रेण सह बन्धितुम् आलोच्यते केन्द्र आभ्यन्तरमन्त्रालयेन। एतत् अधिकृत्य अध्ययनाय नियुक्तया समित्या कृतनिर्देशमनुसृत्य भवति अयम् उद्यमः। राष्ट्रस्य सकलानां वाहनानां विवरणानि सञ्चयितुं केन्द्रीकृतसंविधानानि आवश्यकानि इति समितेः निर्देशेषु मुख्यः। अस्य सम्पूर्णफलप्राप्तये आधारपत्रेण सह बन्धनम् आवश्यकम्। अधुना वाहनानां विवरणानि राज्यस्तरेषु एव सन्ति। यन्त्रयाननियमस्य एकीकरणेन आराष्ट्रे वाहनानां पञ्चीकरणे अप्रत्यक्ष-यानानां प्रत्यभिज्ञाने च त्वरितफलप्राप्तिः भविष्यति इति समितिना निरीक्षितम्।