OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, March 20, 2018

क्षुद्रग्रहान् भग्नं कर्तुं बाह्याकाशयानं निर्मातुं 'नासा'
        क्षुद्रग्रहाणां भीषां विरुद्य नासासंस्था सज्जा भविष्यति।  भूरक्षाम् उद्दिश्य बाह्याकाश पाषाणखण्डान् दूरीकर्तुं  तथा भग्नीकर्तुं बृहदाकारकम् आणवबाह्याकाश-यानं निर्मातुमेव नासा संस्थया उद्दिश्यते। हामर् (HAMMER- Hypervelocity Asteroid Mitigation Mission for Emergency Response) इति नामाङ्कितस्य एतत् यानस्य अष्ट टण् मितः भारः अस्ति। घट्टनाय भूमि प्रति आगतान् भीमाकारान् पाषाणघण्डान्  मार्गभ्रंशं कृत्वा अन्यत्र प्रेषयितुं शक्यते अनेन बाह्याकाश यानेन। इदानीं १६०० पादविस्तृतं बेन्नु (Bennu) नाम क्षुद्रग्रहं त्रिषष्टिसहस्रं मैल् वेगेन सूर्यं प्रदक्षिणीक्रियते। भूमीतः ५.४ कोटि दूरे वर्तमानस्य बेन्नु नाम ग्रहस्य भीषा विचिन्त्य एवभवति एतादृशी नूतना योजना ।