OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, March 25, 2018

केरलीययुवकान् ऐ एस् प्रति नीतवती इत्यस्मिन् विषये यास्मिन् मुहम्मद् इत्यस्यै सप्तवर्षाणां तीक्ष्णकारागारवासः।
        कोच्ची > केरलस्य कासर्गोड् स्वदेशीयान् १५ युवकान् इस्लामिक् स्टेट् [ऐ एस्] नामिकया भीकरसंस्थया  संयोज्य अफ्गानिस्थानं प्रति नीतवती इत्यस्मिन् व्यवहारे यास्मिन् मुहम्मद् नामिका सप्तवर्षाणां तीक्ष्णाय कारागारवासदण्डाय ऐ एन् ए सविशेषन्यायालयेन विहिता। केरलस्य ऐ एन् ए न्यायालयस्य प्रथमः विधिः भवत्येषः। कारागारवासेन सह २५,००० रूप्यकाणां धनदण्डनमपि विहितम्। 
        यास्मिन् अपराधिनीति राष्ट्रिय अन्वेषण विभागेन [ऐ एन् ए] निर्णीतमासीत्। यास्मिन् मुहम्मदस्य पतिः कासर्गोड् स्वदेशीयः अब्दुल् राषिदः अस्ति अस्मिन् व्यवहारे प्रथमा अपराधी। सः अफ्गानिस्थानं प्रति पलायनं कृतवान् स्यात् इति अनुमन्यते।  अफ्गानिस्थाने वर्तमानः एषः इतःपर्यन्तम् अग्रहीतः वर्तते। एतावत्पर्यन्तं अपराधिनं तं गृह्णातुं अधिकारिणः न प्रभवन्ति च।