OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, March 16, 2018

कुप्याः जले अधिकतया पलास्तिकवस्तूनि लीयन्ते।
         मियामि> विश्वस्य प्रसिद्धः कूपीजल निर्माण संस्थाभिः मिर्मीयमानेषु  कूपी जलेषु स्वस्थ्यहानिकराणि पलास्तिकमालिन्यानां सन्निधिः अस्ति इति आवेदितः। नवराष्ट्रेषु कृतानां अनुसन्धानानां भीतिदः फलसारः भवति इयम् । न्यूयोर्क् स्टेट् विशवविद्यालयस्य 'मैक्रो प्लास्टिक् रिसर्चर् षेरिमासणस्य नेतृत्वे एव अध्ययनं सम्पन्नम्। प्रमुख कूपीजलम् इति नामै विज्ञाते जले अधिकतया पलास्तिकांशाः वर्तन्ते इति अध्ययनं स्पष्टीक्रियते। 
        ब्रसीलः, चीनः , भारतम्, इन्टोनेष्य, केनिय, लेबनन्, मेक्सिको,  ताय् लान्ट्, यू एस्, एतेभ्यः राष्ट्रेभ्यः स्वीकृतेभ्यः २५० कूपीजल-प्रतिरूपेषु एव अध्ययनं प्रवृत्तम्। अस्मिन् ९३% प्रतिरूपेषु अपि पलास्तिकांशाः सन्ति इति दृष्टम्। अक्वा, अक्वाफिना, डसानि, एवियान्, नेस्ले प्यूर् लैफ्, बिस्लेरि, एपुऱ, जेरोल्टैनर्, मिनल्ब, वहाह इति नामाङ्किताः अस्मिन् पट्टिकायां अन्तर्भूतेषु प्रमुखाः।
‍‍
        एतादृशमालिन्ययुक्तस्य जलस्य उपयोगः 'ओट्टिसं, अर्बुदः, पुरुषेषु वन्ध्यता च जनयितुं मूलकारणं भविष्यति।