OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, March 30, 2018

वित्तकोशान् विरुद्ध्य सामूहिकमाध्यमद्वारा प्रतिषेधः ।
कोच्ची> एप्रिल्मासस्य षष्टे दिनाङ्के वित्तकोशाद्वारा धनविनिमयः मा भवतु इति जनानां पुरतः निवेदनं सामूहिक माध्यमेषु प्रचलति। सेवनस्य कृते  शुल्करूपेण धनं दातव्यम् इति  न्यायः एव। किन्तु किमपि सेवनं विना  शुल्कं  वित्तलेखात् बलात् स्वीक्रियते इत्येव जनानां प्रतिषेधस्य कारणम्।  धनग्रहणाय धनप्रदानयन्त्रे (ए टि एम्) कार्ड् उपयुज्य धनस्वीकरणाय प्रयत्ने कृते सति यन्त्रे धनं नास्ति इति लिखित्वा प्रदर्शयति। तदर्थं त्रयोविंशति रुप्यकाणि वित्तलेखात् स्वीकरोति तत्र न्यायः कः इति पृच्छति सामूहिक-सन्देशे। अस्माकं धनं वित्तलेखे अस्ति, किन्तु धनप्रदानयन्त्रे विनिमयाय रुप्यकपत्राणि नास्ति चेत् जनाः किमर्थं शुल्कं दातव्यम्  इत्यपि सन्देशे पृच्छति। शतंजनाः तं यन्त्रम् उपयुज्यते चेत् वित्तकोशाय त्रिशतोत्तर द्विसहस्रं रुप्यकाणि यत्नं विना लभन्ते। इतोप्यधिकं श्रेष्ठत्वं रथ्यायाः तस्करस्य एव इति सन्देशो उपहासं कुर्विन्ति। यन्त्रे विविधसंख्याकानां रुप्यकपत्राणि नास्ति चेत्  आदेशानुसारं धनविनिमयाय यन्त्रः न प्रभवति।  तादृशनिष्फल-विनिमय-प्रयत्नाय  शुल्कं वित्तलेखात् बलात् स्वीकरोति। त्रिवारादधिकं धनग्रहणाय शुल्कं, वित्तलेखे निर्दिष्टधनाभावे धनदण्डः । धनग्रहणं  मास्तु इतिचिन्तयति चेत् विनिमयाभावस्य कृते अपि दण्डः।  एवं पुरतः गच्छति सति डिजिट्टल् इन्ट्या कथं शोभनं भविष्यति।
           उपर्युक्तान् अन्यायप्रकमान् विरुद्ध्य एव जनानां प्रतिषेधः।  जनानुकूलप्रक्रमः वित्तकोशाधिकारिभ्यः नास्ति चेत्  २५, २६, २७ दिनाङ्केषु अपि वित्तकोशद्वारा  आर्थिकविनिमयः मास्तु इति  सन्देशे निर्दिशतिI  इदानीं सन्देशस्य प्रसारः सामूहिक माध्यमेषु अति विपुलया रीत्या प्रचलति।