OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, March 26, 2018

पाकिस्थानाय चीनस्य नवीना अग्निसायक-पथक्रमीकरणसुविधा ।
          नवदिल्ली> नूतना अग्निसायक-पथनिर्णयविद्या चीनेन पाकिस्थानाय प्रदत्ता इति आवेदनम्। पाक् सैन्यस्य शक्तीकरणं लक्षीकृत्य एव चीनः आयुध साहाय्यं करोति इति सौत् चैना मोर्णिङ् पोस्ट् पत्रिकया आवेदितम्। चैनीस् अक्कादमि ओफ् सयन्स् संस्थायाः वक्तारं उद्धृत्य एव आसीत् आवेदनम्। नूतनसाङ्केतिकविद्यायै पाकिस्थानेन कति व्ययीकृतम् इति स्पष्टं न। इमां सुविधां उपयोक्तुम् आरब्धं पाकिस्थानेन इति आवेदने अस्ति।
          विश्वस्य प्रप्रथम शब्दातिवेग सायकस्य 'ब्रह्मोस्' नामकस्य परीक्षित विजयस्य ज्ञापनदिने एव नूतनस्य चैनापाक् बान्धवस्य वार्ता बहिरागता। भारतेन निर्मितस्य भूखण्डान्तर अग्निसायकस्य पञ्चमस्य परीक्षण-विक्षेपणानन्तरं मासद्वयम् अतीत्य आसीत् चीनस्य उपर्युक्त संविधानस्य प्रदानम्।