OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, March 18, 2018

निर्वाचने मतदानपत्रं प्रत्यानेतव्यम्  - कोण्ग्रस्। 
         नवदिल्ली > निर्वाचनप्रक्रियायाः विश्वास्यतां सुतार्यतां च दृढीकर्तुं पूर्वकाले वर्तिता मतदानपत्ररीतिः प्रत्यानेतव्या इति कोण्ग्रस् दलेन अपेक्ष्यते। पारमार्थिकं जनविधिं पराङ्मुखीकर्तुं 'इलक्ट्रोणिक् निर्वाचनयन्त्रे' कृत्रिमप्रवर्तनानि चालयन्तीति बहूनि राजनैतिकदलानि सामान्यजनाश्च आशङ्कन्ते इति कारणतः एव ईदृशम् अपेक्षितमिति कोण्ग्रस् दलस्य 'प्लीनरि' सम्मेलने अङ्गीकृते राजनैतिकोपक्षेपे स्पष्टीक्रियते। 
        केषुचित् राज्येषु विधानसभानिर्वाचने बीजेपी दलेन उज्वलविजये प्राप्ते निर्वाचनयन्त्रे क्रमराहित्यं जातमिति कैश्चित् विपक्षदलैः आक्षिप्तमासीत्। निर्वाचनसंस्थां प्रति आवेदनमपि समर्पितम्। अधुना राष्ट्रस्य प्रमुखेन विपक्षदलत्वेन वर्तमानेन कोण्ग्रस् दलेनापि निर्वाचनयन्त्रं संशयग्रस्तं जातमित्यतः आगामिदिनेषु एतद्विषयमधिकृत्य महती चर्चा प्रतीक्ष्यमाणा अस्ति।