OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, March 28, 2018

जीवनसहभोगिनः चयनं नैसर्गिकाधिकारः - सर्वोच्चन्यायालयः। 
        नवदिल्ली > स्वेच्छानुसारं जीवनधर्मसहभोगिनं निर्णेतुं परिणतवयस्कस्य व्यक्तेः नैसर्गिकाधिकारः अस्तीति भारतस्य सर्वोच्चन्यायालयेन विहितम्। पाकवयस्कयोः द्वयोः परस्परपरिणयाय परिवारस्य समाजस्य वा अनुमतिः नावश्यकीति  मुख्यन्यायाधीशस्य दीपक् मिश्रवर्यस्य अध्यक्षत्वेन विद्यमानेन त्र्यङ्गनीतिपीठेन स्पष्टीकृतम्। दुरभिमानहत्यायाः संरक्षणं याचितया 'शक्तिवाहिनी' नामिकया सन्नद्धसंस्थया समर्पिताम् अभियाचिकामनुसृत्य एवायं विधिः।  परिणतवयस्कस्य मिथुनस्य विवाहे 'खाप् ग्रामसभायाः वा इतरजनसमुदायस्य वा व्यवहारः नीतिविरुद्धः इति न्यायालयेन विहितम्।