OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, March 20, 2018

'लिङ्गायत्' परं धर्मविशेषः - कर्णाटकसर्वकारस्य अङ्गीकारः। 
      बेङ्गलुरु > कर्णाटकराज्ये प्रबलसमुदायत्वेन वर्तमानाय 'लिङ्गायत्'नामकविभागाय सविशेषं धर्मपदवीं दातुं मुख्यमन्त्रिणा एस् सिद्धरामय्यस्य नेतृत्वे विद्यमानेन सर्वकारेण निश्चितम्। अन्तिमानुमत्यर्थं निर्णयं केन्द्रसर्वकारं प्रति प्रेषितम्। 
     लिङ्गायत् समुदायान्तर्भूताः जनाः पारम्पर्येण महेश्वरभक्ताः खलु।  कर्णाटकस्य  राजनैतिकमण्डले अपि ते प्रबलाः वर्तन्ते। १२ तमशतके जीवनं कृतवतः आत्मीयाचार्यस्य तथा सामाजिकपरिष्कर्तुः बसवण्णा नामकस्य सिद्धान्तानुगामिनः भवन्ति ते। वेदानां प्राधान्यं धार्मिकाचारानुसृताः कार्यक्रमाः च बसवण्णावर्येण  निषिद्धाः।  किन्तु अस्य समुदायस्य अवान्तरविभागः वीरशैवनामकः च शिवभक्तः तथा हैन्दवाचारान् अनुगच्छति च। सर्वकारस्य अस्मिन्  निर्णये वीरशैवविभागः अतृप्तिं प्रतिषेधं च प्रकाशयति स्म।