OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, March 28, 2018

अग्निसायकविद्यायां स्वयं पर्याप्तं भविष्यति भारतम्।
          नवदिल्ली> संवत्सरद्वयाभ्यन्तरेण अग्निसायक साङ्केतिक-विद्यायां भारतं पर्याप्तताम् अवाप्स्यते। डिफन्स् आन्ट् डवलप्मेन्ट् दलस्य  क्षमतापूर्व प्रयत्नेन सायक निमाणाय धनव्ययः प्रतिशतं पञ्चित्रिंशत् (३५) तः चत्वारिंशत् (४०) पर्यन्तं न्यूनं भविष्यति। NDA सर्वकारस्य शासनप्राप्तिकाले प्रतिरोधानुसन्धान संस्थां प्रति अवदत् यत् २०२२ वर्षेभ्यः पूर्वं अग्निसायक निर्माणविद्यायां स्वाश्रयत्वं   भवतु इत्यासीत्। किन्तु वर्षद्वयात् पूर्वं लक्ष्यप्राप्तिः भविष्यति। 
         ब्रह्मोस् इति शब्दातिवेग योधन-सायकस्य विक्षेपणेन विजय प्राप्तिः इति भारतस्य महान् लाभय, एव। स्वदेशीया रीत्या निर्मिता 'सीक्कर्' नाम सायकनियन्त्रण-संविधानमेव ब्रह्मोस् सायके उपयुक्तम्l अतः रष्याराष्ट्रस्य सीक्कर् संविधानम् इतः आरभ्य न आवश्यकम्। अत एव पञ्चाशत् कोटि आरभ्य विंशतिकोटि पर्यन्तं रुप्यकाणां व्ययः न्यूनः भविष्यति।