OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Monday, March 12, 2018

तेनिदेशे दावाग्न्याम् अन्तर्गतानां  २५ विद्यार्थिनां कृते अन्वेषणम् अनुवर्तते १५ छात्राः रक्षिताः।
          चेन्नै> तमिल्नाट् राज्यस्य तेनी नाम वनप्रदेशे पर्वतारोहणाय गताः छात्राः दावाग्न्न्याम् अन्तर्गताः। एका हता इति आवेदनम् अपि आगच्छति। पञ्चविंशति (२५) छात्राः वने अस्तीति आवेद्यते। वनविभागेन तथा अग्निशमनविभागेन च रक्षा-प्रवर्तनानि कुर्वन्ति।  कुरङ्ङणि वनप्रदेशस्ते कुळुक्पर्वते पर्वतारोहणाय गताः एव अपघाते पतिताः।
 चवारिंशत् (४०) छात्राः संघे आसीत्। तेषु पञ्चदश रक्षिताः। एते अग्निना व्रणिताः। सप्तछात्राः बोडिनाय्क्कन्नूर् सर्वकारीय आतुरालये प्रविष्टाः।
          व्योमसेनायाः उदग्रयानानि राक्षाप्रवर्तनाय आगतानि चेदपि प्रकाशस्य अभावेन रक्षाप्रवर्तनानि स्तगितानि। वनान्तर्भागे अपगतेषु छात्रेषु एकः दूरवाणीद्वारा स्वस्य गृहं आहूय्य अपघातवार्ता न्यवेदिता । तदनन्तरम् इमां घटनां  ज्ञात्वा वनविभागस्य प्रवर्तकैः राक्षाप्रवर्तनानि आरब्धानिI यानगमनमार्गात् पञ्चविंशति किलोमीट्टर् दूरे एव अयम् अपघातदेशः इत्यनेन सुरक्षाप्रवर्तनेभ्यः वैक्लब्यम् अनुभूयन्ते|